अथर्ववेद - काण्ड 5/ सूक्त 14/ मन्त्र 12
सूक्त - शुक्रः
देवता - कृत्यापरिहरणम्
छन्दः - अनुष्टुप्
सूक्तम् - कृत्यापरिहरण सूक्त
इष्वा॒ ऋजी॑यः पततु॒ द्यावा॑पृथिवी॒ तं प्रति॑। सा तं मृ॒गमि॑व गृह्णातु कृ॒त्या कृ॑त्या॒कृतं॒ पुनः॑ ॥
स्वर सहित पद पाठइष्वा॑: । ऋजी॑य: । प॒त॒तु॒ । द्यावा॑पृथिवी॒ इति॑ । तम् । प्रति॑ । सा । तम् । मृ॒गम्ऽइ॑व । गृ॒ह्णा॒तु॒ । कृ॒त्या । कृ॒त्या॒ऽकृत॑म् । पुन॑: ॥१४.१२॥
स्वर रहित मन्त्र
इष्वा ऋजीयः पततु द्यावापृथिवी तं प्रति। सा तं मृगमिव गृह्णातु कृत्या कृत्याकृतं पुनः ॥
स्वर रहित पद पाठइष्वा: । ऋजीय: । पततु । द्यावापृथिवी इति । तम् । प्रति । सा । तम् । मृगम्ऽइव । गृह्णातु । कृत्या । कृत्याऽकृतम् । पुन: ॥१४.१२॥
अथर्ववेद - काण्ड » 5; सूक्त » 14; मन्त्र » 12
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १२−(इष्वाः) बाणात् (ऋजीयः) ऋजु−ईयसुन्। ऋजुतरम्। अधिकसरलम् (पततु) अधः पततु (द्यावापृथिवी) हे द्यावापृथिव्योः पदार्थाः (तम्) तर्दकं चोरम् (प्रति) (सा) (तम्) पूर्वोक्तम् (मृगम्) आखेटपशुम् (इव) यथा (गृह्णातु) आदत्ताम् (कृत्या) शत्रुनाशिका सेना (कृत्याकृतम्) हिंसाकारिणम् (पुनः) पश्चात्। अवश्यम् ॥
इस भाष्य को एडिट करें