अथर्ववेद - काण्ड 5/ सूक्त 14/ मन्त्र 6
सूक्त - शुक्रः
देवता - कृत्यापरिहरणम्
छन्दः - अनुष्टुप्
सूक्तम् - कृत्यापरिहरण सूक्त
यदि॒ स्त्री यदि॑ वा॒ पुमा॑न्कृ॒त्यां च॒कार॑ पा॒प्मने॑। तामु॒ तस्मै॑ नयाम॒स्यश्व॑मिवाश्वाभि॒धान्या॑ ॥
स्वर सहित पद पाठयदि॑ । स्त्री । यदि॑ । वा॒ । पुमा॑न् । कृ॒त्याम् । च॒कार॑ । पा॒प्मने॑ । ताम् । ऊं॒ इति॑ । तस्मै॑ । न॒या॒म॒सि॒ । अश्व॑म्ऽइव । अ॒श्व॒ऽअ॒भि॒धान्या॑ ॥१४.६॥
स्वर रहित मन्त्र
यदि स्त्री यदि वा पुमान्कृत्यां चकार पाप्मने। तामु तस्मै नयामस्यश्वमिवाश्वाभिधान्या ॥
स्वर रहित पद पाठयदि । स्त्री । यदि । वा । पुमान् । कृत्याम् । चकार । पाप्मने । ताम् । ऊं इति । तस्मै । नयामसि । अश्वम्ऽइव । अश्वऽअभिधान्या ॥१४.६॥
अथर्ववेद - काण्ड » 5; सूक्त » 14; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(यदि) पक्षान्तरे (स्त्री) (यदि वा) अथवा (पुमान्) अ० १।८।१। पा रक्षणे डुमसुन्। पुरुषः (कृत्याम्) हिंसाम् (चकार) कृतवान् (पाप्मने) पा रक्षणे−मनिन् पुक् च। पापकरणाय (ताम्) कृत्याम् (उ) अवश्यम् (तस्मै) जनाय (नयामसि) गमयामः (अश्वम्) तुरङ्गम् (अश्वाभिधान्या) अभि+धा−ल्युट् ङीप्। अश्वबन्धनरज्ज्वा ॥
इस भाष्य को एडिट करें