Loading...
अथर्ववेद > काण्ड 5 > सूक्त 14

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 14/ मन्त्र 8
    सूक्त - शुक्रः देवता - कृत्यापरिहरणम् छन्दः - त्रिपदा विराडनुष्टुप् सूक्तम् - कृत्यापरिहरण सूक्त

    अग्ने॑ पृतनाषा॒ट्पृत॑नाः सहस्व। पुनः॑ कृ॒त्यां कृ॑त्या॒कृते॑ प्रति॒हर॑णेन हरामसि ॥

    स्वर सहित पद पाठ

    अग्ने॑ । पृ॒त॒ना॒षा॒ट् । पृत॑ना: । स॒ह॒स्व॒ । पुन॑: । कृ॒त्याम् । कृ॒त्या॒ऽकृते॑ । प्र॒ति॒ऽहर॑णेन । ह॒रा॒म॒सि॒ ॥१४.८॥


    स्वर रहित मन्त्र

    अग्ने पृतनाषाट्पृतनाः सहस्व। पुनः कृत्यां कृत्याकृते प्रतिहरणेन हरामसि ॥

    स्वर रहित पद पाठ

    अग्ने । पृतनाषाट् । पृतना: । सहस्व । पुन: । कृत्याम् । कृत्याऽकृते । प्रतिऽहरणेन । हरामसि ॥१४.८॥

    अथर्ववेद - काण्ड » 5; सूक्त » 14; मन्त्र » 8

    टिप्पणीः - ८−(अग्ने) हे विद्वन् सेनापते (पृतनाषाट्) छन्दसि षहः। पा० ३।२।६३। इति पृतना+षह अभिभवे−ण्वि। सहेः साडः सः। पा० ८।३।५६। इति सस्य षः। संग्रामजेता (पृतनाः) अ० ३।२१।३। संग्रामान् (सहस्व) अभिभव (पुनः) अवश्यम् (कृत्याम्) हिंसाम् (कृत्याकृते) हिंसाकारिणे (प्रतिहरणेन) प्रतिकूलनयनेन। निरोधेन (हरामसि) नाशयामः ॥

    इस भाष्य को एडिट करें
    Top