अथर्ववेद - काण्ड 5/ सूक्त 14/ मन्त्र 3
सूक्त - शुक्रः
देवता - कृत्यापरिहरणम्
छन्दः - अनुष्टुप्
सूक्तम् - कृत्यापरिहरण सूक्त
रि॑श्यस्येव परीशा॒सं प॑रि॒कृत्य॒ परि॑ त्व॒चः। कृ॒त्यां कृ॑त्या॒कृते॑ देवा नि॒ष्कमि॑व॒ प्रति॑ मुञ्चत ॥
स्वर सहित पद पाठरिश्य॑स्यऽइव । प॒रि॒ऽशा॒सनम् । प॒रि॒ऽकृत्य॑ । परि॑ । त्व॒च: । कृ॒त्याम् । कृ॒त्या॒ऽकृते॑ । दे॒वा॒: । नि॒ष्कम्ऽइ॑व । प्रति॑ । मु॒ञ्च॒त॒ ॥१४.३॥
स्वर रहित मन्त्र
रिश्यस्येव परीशासं परिकृत्य परि त्वचः। कृत्यां कृत्याकृते देवा निष्कमिव प्रति मुञ्चत ॥
स्वर रहित पद पाठरिश्यस्यऽइव । परिऽशासनम् । परिऽकृत्य । परि । त्वच: । कृत्याम् । कृत्याऽकृते । देवा: । निष्कम्ऽइव । प्रति । मुञ्चत ॥१४.३॥
अथर्ववेद - काण्ड » 5; सूक्त » 14; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(रिश्यस्य) रिश हिंसायाम्−क्यप्। हिंसकस्य (इव) अवधारणे (परिशासम्) शसु हिंसायाम्−घञ्। हिंसासामर्थ्यम् (परिकृत्य) कृती छेदने−ल्यप्। परिच्छिद्य (परि) सर्वतः (त्वचः) चर्मणः। शरीरादित्यर्थः (कृत्याम्) हिंसाम् (कृत्याकृते) हिंसाकारिणे (देवाः) हे विद्वांसः (निष्कम्) नौ सदेर्डि च। उ० ३।४५। इति षद्लृ विशरणगत्यवसादनेषु−कन्, सच डित्। निषदनम्। किट्टम् (इव) यथा (प्रति) प्रतिकूलम् (मुञ्चत) त्यजत ॥
इस भाष्य को एडिट करें