Loading...
अथर्ववेद > काण्ड 5 > सूक्त 18

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 18/ मन्त्र 11
    सूक्त - मयोभूः देवता - ब्रह्मगवी छन्दः - अनुष्टुप् सूक्तम् - ब्रह्मगवी सूक्त

    गौरे॒व तान्ह॒न्यमा॑ना वैतह॒व्याँ अवा॑तिरत्। ये केस॑रप्राबन्धायाश्चर॒माजा॒मपे॑चिरन् ॥

    स्वर सहित पद पाठ

    गौ: । ए॒व । तान् । ह॒न्यमा॑ना । वै॒त॒ऽह॒व्यान् । अव॑ । अ॒ति॒र॒त् ।ये । केस॑रऽप्राबन्धाया: । च॒र॒म॒ऽअजा॑म् । अपे॑चिरन् ॥१८.११॥


    स्वर रहित मन्त्र

    गौरेव तान्हन्यमाना वैतहव्याँ अवातिरत्। ये केसरप्राबन्धायाश्चरमाजामपेचिरन् ॥

    स्वर रहित पद पाठ

    गौ: । एव । तान् । हन्यमाना । वैतऽहव्यान् । अव । अतिरत् ।ये । केसरऽप्राबन्धाया: । चरमऽअजाम् । अपेचिरन् ॥१८.११॥

    अथर्ववेद - काण्ड » 5; सूक्त » 18; मन्त्र » 11

    टिप्पणीः - ११−(गौः) वाणी (एव) अवश्यम् (तान्) (हव्यमाना) हिंस्यमाना नाश्यमाना (वैतहव्यान्) म० १०। वीतहव्यान् खादितदेवयोग्यान्नान् (अवातिरत्) पराभवत् (ये) (केसरप्राबन्धायाः) के+सृ गतौ−अच्+प्र+अबन्धायाः। के आत्मनि सरणशीलायाः प्रकर्षेण अबन्धायाः मुक्तस्वभावायाः शक्तेः परमेश्वरस्य (चरमाजाम्) चरम+अजाम्। चरेश्च। उ० ५।६९। इति चर गतौ−अमच्+अज गतिक्षेपणयोः−पचाद्यच्, गतिर्ज्ञानम्, वीभावाभावः। अजा अजनाः−तिरु० ४।२५। चरमां व्यापिकाम् अजां विद्याम् (अपेचिरन्) पच पाके लङि छान्दसं रूपम्। अपचन्। पाकेन तापेन नाशितवन्तः ॥

    इस भाष्य को एडिट करें
    Top