अथर्ववेद - काण्ड 5/ सूक्त 18/ मन्त्र 2
सूक्त - मयोभूः
देवता - ब्रह्मगवी
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
अ॒क्षद्रु॑ग्धो राज॒न्यः॑ पा॒प आ॑त्मपराजि॒तः। स ब्रा॑ह्म॒णस्य॒ गाम॑द्याद॒द्य जी॒वानि॒ मा श्वः ॥
स्वर सहित पद पाठअ॒क्षऽद्रु॑ग्ध: । रा॒ज॒न्य᳡: । पा॒प: । आ॒त्म॒ऽप॒रा॒जि॒त: । स: । ब्रा॒ह्म॒णस्य॑ । गाम् । अ॒द्या॒त् । अ॒द्य । जी॒वा॒नि॒ । श्व: ॥१८.२॥
स्वर रहित मन्त्र
अक्षद्रुग्धो राजन्यः पाप आत्मपराजितः। स ब्राह्मणस्य गामद्यादद्य जीवानि मा श्वः ॥
स्वर रहित पद पाठअक्षऽद्रुग्ध: । राजन्य: । पाप: । आत्मऽपराजित: । स: । ब्राह्मणस्य । गाम् । अद्यात् । अद्य । जीवानि । श्व: ॥१८.२॥
अथर्ववेद - काण्ड » 5; सूक्त » 18; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(अक्षद्रुग्धः) अक्षैरिन्द्रियैर्नाशितः। अजितेन्द्रियः (राजन्यः) राजा (पापः) पाप−अर्शआद्यच्। दुष्टः (आत्मपराजितः) आत्मना पराभूतः (सः) (ब्राह्मणस्य) वेदवेत्तुः विप्रस्य (गाम्) वाणीम् (अद्यात्) भक्षयेत् (अद्य) अस्मिन् दिने (मा) निषेधे (श्वः) आगामिनि दिवसे ॥
इस भाष्य को एडिट करें