अथर्ववेद - काण्ड 5/ सूक्त 18/ मन्त्र 6
सूक्त - मयोभूः
देवता - ब्रह्मगवी
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
न ब्रा॑ह्म॒णो हिं॑सित॒व्यो॒ऽग्निः प्रि॒यत॑नोरिव। सोमो॒ ह्य॑स्य दाया॒द इन्द्रो॑ अस्याभिशस्ति॒पाः ॥
स्वर सहित पद पाठन । ब्रा॒ह्म॒ण: । हिं॒सि॒त॒व्य᳡: । अ॒ग्नि: । प्रि॒यत॑नो:ऽइव । सोम॑: । हि । अ॒स्य॒ । दा॒या॒द: । इन्द्र॑: । अ॒स्य॒ । अ॒भि॒श॒स्ति॒ऽपा ॥१८.६॥
स्वर रहित मन्त्र
न ब्राह्मणो हिंसितव्योऽग्निः प्रियतनोरिव। सोमो ह्यस्य दायाद इन्द्रो अस्याभिशस्तिपाः ॥
स्वर रहित पद पाठन । ब्राह्मण: । हिंसितव्य: । अग्नि: । प्रियतनो:ऽइव । सोम: । हि । अस्य । दायाद: । इन्द्र: । अस्य । अभिशस्तिऽपा ॥१८.६॥
अथर्ववेद - काण्ड » 5; सूक्त » 18; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(न) निषेधे (ब्राह्मणः) वेदज्ञ आप्तपुरुषः (हिंसितव्यः) केनापि हिंसितुमशक्यः (अग्निः) पावकः (प्रियतनोः) सुपां सुपो भवन्ति। वा० पा० ७।१।३९। इति प्रथमायाः षष्ठी। प्रियतनुः। शरीरस्य हितकरः (इव) यथा (सोमः) चन्द्रः (हि) यस्मात्कारणात् (अस्य) ब्राह्मणस्य (दायादः) दा दाने−घञ्। आतो युक् चिण्कृतोः। पा० ७।३।३३। इति युक्। दायं विभजनीयधनमादत्ते। आतश्चोपसर्गे पा० ३।१।१३६। इति आ+दा−क। यद्वा, दायमत्ति, अद भोजने−अण्। दायभागी पुरुषो यथा (इन्द्रः) सूर्यः (अस्य) (अभिशस्तिपाः) अ० २।१३।३। अपवादाद् रक्षकः ॥
इस भाष्य को एडिट करें