अथर्ववेद - काण्ड 8/ सूक्त 5/ मन्त्र 11
सूक्त - शुक्रः
देवता - कृत्यादूषणम् अथवा मन्त्रोक्ताः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - प्रतिसरमणि सूक्त
उत्त॒मो अ॒स्योष॑धीनामन॒ड्वाञ्जग॑तामिव व्या॒घ्रः श्वप॑दामिव। यमैच्छा॒मावि॑दाम॒ तं प्र॑ति॒स्पाश॑न॒मन्ति॑तम् ॥
स्वर सहित पद पाठउ॒त्ऽत॒म: । अ॒सि॒ । ओष॑धीनाम् । अ॒न॒ड्वान् । जग॑ताम्ऽइव । व्या॒घ्र: । श्वप॑दाम्ऽइव । यम् । ऐच्छा॑म । अवि॑दाम । तम् । प्र॒ति॒ऽस्पाश॑नम् । अन्ति॑तम् । ॥५..११॥
स्वर रहित मन्त्र
उत्तमो अस्योषधीनामनड्वाञ्जगतामिव व्याघ्रः श्वपदामिव। यमैच्छामाविदाम तं प्रतिस्पाशनमन्तितम् ॥
स्वर रहित पद पाठउत्ऽतम: । असि । ओषधीनाम् । अनड्वान् । जगताम्ऽइव । व्याघ्र: । श्वपदाम्ऽइव । यम् । ऐच्छाम । अविदाम । तम् । प्रतिऽस्पाशनम् । अन्तितम् । ॥५..११॥
अथर्ववेद - काण्ड » 8; सूक्त » 5; मन्त्र » 11
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ११−(उत्तमः) (असि) (ओषधीनाम्) अ० १।२३।१। तापनाशकानां मध्ये (अनड्वान्) अ० ४।११।१। शकटवाहको बलीवर्दः (जगताम्) अ० १।३१।४। गतिशीलानां गवादीनां मध्ये (इव) यथा (व्याघ्रः) अ० ४।३।१। हिंस्रपशुविशेषः (श्वपदाम्) शुन इव पादो येषाम्। हिंस्रपशूनां मध्ये (इव) (यम्) (ऐच्छाम) वयमिष्टवन्तः (अविदाम) विन्दतेर्लुङि च्लेरङ्। वयं लब्धवन्तः (तम्) (प्रतिस्पाशनम्) स्पश बाधनस्पर्शनयोः, णिच्-ल्यु। प्रत्येकस्पर्शकम् (अन्तितम्) अ० ६।४।२। प्रबन्धकम् ॥
इस भाष्य को एडिट करें