Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 5/ मन्त्र 21
    सूक्त - शुक्रः देवता - कृत्यादूषणम् अथवा मन्त्रोक्ताः छन्दः - पराविराट्त्रिष्टुप् सूक्तम् - प्रतिसरमणि सूक्त

    अ॒स्मिन्निन्द्रो॒ नि द॑धातु नृ॒म्णमि॒मं दे॑वासो अभि॒संवि॑शध्वम्। दी॑र्घायु॒त्वाय॑ श॒तशा॑रदा॒यायु॑ष्माञ्ज॒रद॑ष्टि॒र्यथास॑त् ॥

    स्वर सहित पद पाठ

    अ॒स्मिन् । इन्द्र॑: । नि । द॒धा॒तु॒ । नृ॒म्णम् । इ॒मम् । दे॒वा॒स॒: । अ॒भि॒ऽसंवि॑शध्वम् । दी॒र्घा॒यु॒ऽत्वाय॑ । श॒तऽशा॑रदाय । आयु॑ष्मान् । ज॒रत्ऽअ॑ष्टि: । यथा॑ । अस॑त् ॥५.२१॥


    स्वर रहित मन्त्र

    अस्मिन्निन्द्रो नि दधातु नृम्णमिमं देवासो अभिसंविशध्वम्। दीर्घायुत्वाय शतशारदायायुष्माञ्जरदष्टिर्यथासत् ॥

    स्वर रहित पद पाठ

    अस्मिन् । इन्द्र: । नि । दधातु । नृम्णम् । इमम् । देवास: । अभिऽसंविशध्वम् । दीर्घायुऽत्वाय । शतऽशारदाय । आयुष्मान् । जरत्ऽअष्टि: । यथा । असत् ॥५.२१॥

    अथर्ववेद - काण्ड » 8; सूक्त » 5; मन्त्र » 21

    टिप्पणीः - २१−(अस्मिन्) मनुष्ये (इन्द्रः) परमैश्वर्यवान् जगदीश्वरः (नि) नियमेन (दधातु) स्थापयतु (नृम्णम्) अ० ४।२४।३। बलं धनं वा (इमम्) म–० २०। मेथिम्। बोधम् (अभिसंविशध्वम्) म० २० (दीर्घायुत्वाय) चिरजीवनाय (शतशारदाय) अ० १।३५।१। शतसंवत्सरयुक्ताय (आयुष्मान्। जरदष्टिः। यथा) म० १९ (असत्) भवेत् ॥

    इस भाष्य को एडिट करें
    Top