Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 5/ मन्त्र 16
    सूक्त - शुक्रः देवता - कृत्यादूषणम् अथवा मन्त्रोक्ताः छन्दः - चतुष्पदा भुरिग्जगती सूक्तम् - प्रतिसरमणि सूक्त

    अ॒यमिद्वै प्र॑तीव॒र्त ओज॑स्वान्संज॒यो म॒णिः। प्र॒जां धनं॑ च रक्षतु परि॒पाणः॑ सुम॒ङ्गलः॑ ॥

    स्वर सहित पद पाठ

    अ॒यम् । इत् । वै । प्र॒ति॒ऽव॒र्त: । ओज॑स्वान् । स॒म्ऽज॒य: । म॒णि: । प्र॒ऽजाम् । धन॑म् । च॒ । र॒क्ष॒तु॒ । प॒रि॒ऽपान॑: । सु॒ऽम॒ङ्गल॑: ॥५.१६॥


    स्वर रहित मन्त्र

    अयमिद्वै प्रतीवर्त ओजस्वान्संजयो मणिः। प्रजां धनं च रक्षतु परिपाणः सुमङ्गलः ॥

    स्वर रहित पद पाठ

    अयम् । इत् । वै । प्रतिऽवर्त: । ओजस्वान् । सम्ऽजय: । मणि: । प्रऽजाम् । धनम् । च । रक्षतु । परिऽपान: । सुऽमङ्गल: ॥५.१६॥

    अथर्ववेद - काण्ड » 8; सूक्त » 5; मन्त्र » 16

    टिप्पणीः - १६−(अयम्) (इत्) अवश्यम् (वै) एव (प्रतिवर्तः) म० ४। प्रत्यक्षवर्तनशीलः (ओजस्वान्) बलवान् (संजयः) सम्यग् जेता (मणिः) म० १। श्रेष्ठनियमः (प्रजाम्) (धनम्) (च) (रक्षतु) (परिपाणः) म० १। परिरक्षकः (सुमङ्गलः) बहुश्रेयस्करः ॥

    इस भाष्य को एडिट करें
    Top