अथर्ववेद - काण्ड 8/ सूक्त 5/ मन्त्र 20
सूक्त - शुक्रः
देवता - कृत्यादूषणम् अथवा मन्त्रोक्ताः
छन्दः - विराड्गर्भास्तारपङ्क्तिः
सूक्तम् - प्रतिसरमणि सूक्त
आ मा॑रुक्षद्देवम॒णिर्म॒ह्या अ॑रि॒ष्टता॑तये। इ॒मं मे॒थिम॑भि॒संवि॑शध्वं तनू॒पानं॑ त्रि॒वरू॑थ॒मोज॑से ॥
स्वर सहित पद पाठआ । मा॒ । अ॒रु॒क्ष॒त् । दे॒व॒ऽम॒णि: । म॒ह्यै । अ॒रि॒ष्टऽता॑तये । इ॒मम् । मे॒थिम् । अ॒भि॒ऽसंवि॑शध्वम् । त॒नू॒ऽपान॑म् । त्रि॒ऽवरू॑थम् । ओज॑से ॥५.२०॥
स्वर रहित मन्त्र
आ मारुक्षद्देवमणिर्मह्या अरिष्टतातये। इमं मेथिमभिसंविशध्वं तनूपानं त्रिवरूथमोजसे ॥
स्वर रहित पद पाठआ । मा । अरुक्षत् । देवऽमणि: । मह्यै । अरिष्टऽतातये । इमम् । मेथिम् । अभिऽसंविशध्वम् । तनूऽपानम् । त्रिऽवरूथम् । ओजसे ॥५.२०॥
अथर्ववेद - काण्ड » 8; सूक्त » 5; मन्त्र » 20
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २०−(मा) माम् (आ अरुक्षत्) अ० ३।५।५। आरूढवान्। अधिष्ठितवान्, (देवमणिः) दिव्यगुणो मणिः श्रेष्ठनियमः (मह्यै) महत्यै (अरिष्टतातये) अ० ३।५।५। कुशलकरणाय (इमम्) सुप्रसिद्धम् (मेथिम्) सर्वधातुभ्य इन्। उ० ४।११८। मेथृ वधे मेधायां च-इन्। बोधम् (अभिसंविशध्वम्) सर्वतो मिलित्वा प्रविशत, आश्रयध्वम् (तनूपानम्) शरीरपालकम् (त्रिरूथम्) जॄवृञ्भ्यामूथन्। उ० २।६। वृञ् स्वीकरणे संवरणे वा-ऊथन्। त्रीणि वरूथानि आध्यात्मिकाधिभौतिकाधिदैविकानि रक्षणानि यस्मिंस्तम् (ओजसे) बलाय ॥
इस भाष्य को एडिट करें