Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 5/ मन्त्र 14
    सूक्त - शुक्रः देवता - कृत्यादूषणम् अथवा मन्त्रोक्ताः छन्दः - त्र्यवसाना षट्पदा जगती सूक्तम् - प्रतिसरमणि सूक्त

    क॒श्यप॒स्त्वाम॑सृजत क॒श्यप॑स्त्वा॒ समै॑रयत्। अबि॑भ॒स्त्वेन्द्रो॒ मानु॑षे॒ बिभ्र॑त्संश्रेषि॒णेज॑यत्। म॒णिं स॒हस्र॑वीर्यं॒ वर्म॑ दे॒वा अ॑कृण्वत ॥

    स्वर सहित पद पाठ

    क॒श्यप॑: । त्वाम् । अ॒सृ॒ज॒त॒ । क॒श्यप॑: । त्वा॒ । सम् । ऐ॒र॒य॒त् । अबि॑भ: । त्वा॒। इन्द्र॑: । मानु॑षे । बिभ्र॑त् । स॒म्ऽश्रे॒षि॒णे । अ॒ज॒य॒त् । म॒णिम् । स॒हस्र॑ऽवीर्यम् । वर्म । दे॒वा: । अ॒कृ॒ण्व॒त॒ ॥५.१४॥


    स्वर रहित मन्त्र

    कश्यपस्त्वामसृजत कश्यपस्त्वा समैरयत्। अबिभस्त्वेन्द्रो मानुषे बिभ्रत्संश्रेषिणेजयत्। मणिं सहस्रवीर्यं वर्म देवा अकृण्वत ॥

    स्वर रहित पद पाठ

    कश्यप: । त्वाम् । असृजत । कश्यप: । त्वा । सम् । ऐरयत् । अबिभ: । त्वा। इन्द्र: । मानुषे । बिभ्रत् । सम्ऽश्रेषिणे । अजयत् । मणिम् । सहस्रऽवीर्यम् । वर्म । देवा: । अकृण्वत ॥५.१४॥

    अथर्ववेद - काण्ड » 8; सूक्त » 5; मन्त्र » 14

    टिप्पणीः - १४−(कश्यपः) अ० २।३३।७। पश्यकः सर्वद्रष्टा (त्वाम्) मणिम् (असृजत) उत्पादितवान् (कश्यपः) (त्वा) (सम्) सम्यक् (ऐरयत्) प्रेरितवान् (अबिभः) अ० ६।८१।३। धृतवान् (इन्द्रः) परमैश्वर्यवान् पुरुषः (मानुषे) अ० ४।१४।५। मनुष्यसम्बन्धिनि लोके (बिभ्रत्) धारयन् (संश्रेषिणे) श्यास्त्या०। उ० २।४६। सम्+श्लिष संसर्गे-इनच्, लस्य रः। परस्परश्लेषणसाधने संग्रामे (अजयत्) जयं प्राप्तवान् (मणिम्) म० १। श्रेष्ठनियमम् (सहस्रवीर्यम्) बहुसामर्थ्यम् (वर्म) भयनिवारकं कवचम् (देवाः) विजिगीषवः। शूराः (अकृण्वत) अकुर्वन् ॥

    इस भाष्य को एडिट करें
    Top