Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 5/ मन्त्र 3
    सूक्त - शुक्रः देवता - कृत्यादूषणम् अथवा मन्त्रोक्ताः छन्दः - चतुष्पदा भुरिग्जगती सूक्तम् - प्रतिसरमणि सूक्त

    अ॒नेनेन्द्रो॑ म॒णिना॑ वृ॒त्रम॑हन्न॒नेनासु॑रा॒न्परा॑भावयन्मनी॒षी। अ॒नेना॑जय॒द्द्यावा॑पृथि॒वी उ॒भे इ॒मे अ॒नेना॑जयत्प्र॒दिश॒श्चत॑स्रः ॥

    स्वर सहित पद पाठ

    अ॒नेन॑ । इन्द्र॑: । म॒णिना॑ । वृ॒त्रम् । अ॒ह॒न् । अ॒नेन॑ । असु॑रान् । परा॑ । अ॒भा॒व॒य॒त् । म॒नी॒षी । अ॒नेन॑ । अ॒ज॒य॒त् । द्यावा॑पृथि॒वी इति॑ । उ॒भे इति॑ । इ॒मे इति॑ । अ॒नेन॑ । अ॒ज॒य॒त् । प्र॒ऽदिश॑: । चत॑स्र: ॥५.३॥


    स्वर रहित मन्त्र

    अनेनेन्द्रो मणिना वृत्रमहन्ननेनासुरान्पराभावयन्मनीषी। अनेनाजयद्द्यावापृथिवी उभे इमे अनेनाजयत्प्रदिशश्चतस्रः ॥

    स्वर रहित पद पाठ

    अनेन । इन्द्र: । मणिना । वृत्रम् । अहन् । अनेन । असुरान् । परा । अभावयत् । मनीषी । अनेन । अजयत् । द्यावापृथिवी इति । उभे इति । इमे इति । अनेन । अजयत् । प्रऽदिश: । चतस्र: ॥५.३॥

    अथर्ववेद - काण्ड » 8; सूक्त » 5; मन्त्र » 3

    टिप्पणीः - ३−(अनेन) प्रसिद्धेन वेदरूपेण (इन्द्रः) प्रतापी सेनापतिः (वृत्रम्) अ० २।५।३। अन्धकारम् (अहन्) हतवान् (अनेन) (असुरान्) सुरविरोधिनो दैत्यान् (पराभावयत्) पराभूतान् विनष्टानकरोत् (मनीषी) अ० ३।५।६। मनीषया मनस ईषया स्तुत्या प्रज्ञया वा-निरु० ९।१०। मेधावी (अनेन) (अजयत्) जितवान् (द्यावापृथिवी) सूर्यभूलोकौ (उभे) द्वे (इमे) प्रत्यक्षे (अनेन) (अजयत्) (प्रदिशः) प्रकृष्टा दिशः प्राच्याद्याः (चतस्रः) चतुःसंख्याकाः ॥

    इस भाष्य को एडिट करें
    Top