अथर्ववेद - काण्ड 4/ सूक्त 34/ मन्त्र 7
सूक्त - अथर्वा
देवता - ब्रह्मौदनम्
छन्दः - भुरिगतिशक्वरी
सूक्तम् - ब्रह्मौदन सूक्त
च॒तुरः॑ कु॒म्भांश्च॑तु॒र्धा द॑दामि क्षी॒रेण॑ पू॒र्णाँ उ॑द॒केन॑ द॒ध्ना। ए॒तास्त्वा॒ धारा॒ उप॑ यन्तु॒ सर्वाः॑ स्व॒र्गे लो॒के मधु॑म॒त्पिन्व॑माना॒ उप॑ त्वा तिष्ठन्तु पुष्क॒रिणीः॒ सम॑न्ताः ॥
स्वर सहित पद पाठच॒तुर॑: । कु॒म्भान् । च॒तु॒:ऽधा । द॒दा॒मि॒ । क्षी॒रेण॑ । पू॒र्णान् । उ॒द॒केन॑ । द॒ध्ना । ए॒ता: । त्वा॒ । धारा॑: । उप॑ । य॒न्तु॒ । सर्वा॑: । स्व॒:ऽगे । लो॒के । मधु॑ऽमत् । पिन्व॑माना: । उप॑ । त्वा॒ । ति॒ष्ठ॒न्तु॒ । पु॒ष्क॒रिणी॑: । सम्ऽअ॑न्ता: ॥३४.७॥
स्वर रहित मन्त्र
चतुरः कुम्भांश्चतुर्धा ददामि क्षीरेण पूर्णाँ उदकेन दध्ना। एतास्त्वा धारा उप यन्तु सर्वाः स्वर्गे लोके मधुमत्पिन्वमाना उप त्वा तिष्ठन्तु पुष्करिणीः समन्ताः ॥
स्वर रहित पद पाठचतुर: । कुम्भान् । चतु:ऽधा । ददामि । क्षीरेण । पूर्णान् । उदकेन । दध्ना । एता: । त्वा । धारा: । उप । यन्तु । सर्वा: । स्व:ऽगे । लोके । मधुऽमत् । पिन्वमाना: । उप । त्वा । तिष्ठन्तु । पुष्करिणी: । सम्ऽअन्ता: ॥३४.७॥
अथर्ववेद - काण्ड » 4; सूक्त » 34; मन्त्र » 7
विषय - विष्टारी ओदन, परम प्रजापति की उपासना और फल।
भावार्थ -
(चतुर्धा) चार प्रकार की वस्तुओं से अर्थात् (क्षीरेण, उदकन, दध्ना पूर्णाम्) दूध, सामान्य जल तथा शुद्ध जल और दही से भरे (चतुरः कुम्भान्) चार घड़ों को (ददामि) मैं अतिथियों के प्रति दान भी, इस आश्रम में करता हूं। शेष पूर्ववत् !
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। ब्रह्मास्यौदनं विष्टारी ओदनं वा देवता। १-३ त्रिष्टुभः। ५ त्र्यवसाना सप्तपदाकृतिः। ६ पञ्चपदातिशक्वरी। ७ भुरिक् शक्वरी, ८ जगती। अष्टर्चं सूक्तम्॥
इस भाष्य को एडिट करें