अथर्ववेद - काण्ड 9/ सूक्त 1/ मन्त्र 17
सूक्त - अथर्वा
देवता - मधु, अश्विनौ
छन्दः - उपरिष्टाद्विराड्बृहती
सूक्तम् - मधु विद्या सूक्त
यथा॒ मक्षा॑ इ॒दं मधु॑ न्य॒ञ्जन्ति॒ मधा॒वधि॑। ए॒वा मे॑ अश्विना॒ वर्च॒स्तेजो॒ बल॒मोज॑श्च ध्रियताम् ॥
स्वर सहित पद पाठयथा॑ । मक्षा॑: । इ॒दम् । मधु॑ । नि॒ऽअ॒ञ्जन्ति॑ । मधौ॑ । अधि॑ । ए॒व । मे॒ । अ॒श्वि॒ना॒ । वर्च॑: । तेज॑: । बल॑म् । ओज॑: । च॒ । ध्रि॒य॒ता॒म् ॥१.१७॥
स्वर रहित मन्त्र
यथा मक्षा इदं मधु न्यञ्जन्ति मधावधि। एवा मे अश्विना वर्चस्तेजो बलमोजश्च ध्रियताम् ॥
स्वर रहित पद पाठयथा । मक्षा: । इदम् । मधु । निऽअञ्जन्ति । मधौ । अधि । एव । मे । अश्विना । वर्च: । तेज: । बलम् । ओज: । च । ध्रियताम् ॥१.१७॥
अथर्ववेद - काण्ड » 9; सूक्त » 1; मन्त्र » 17
विषय - मधुकशा ब्रह्मशक्ति का वर्णन।
भावार्थ -
(यथा) जिस प्रकार (मक्षाः) मधुमक्खिएं (मधौ अधि) मधुमास या वसन्त काल में (इदम्) इस (मधु) मधुरस को (नि-अञ्जन्ति) संग्रह करती हैं, हे (अश्विनौ) आचार्य और परमात्मन् ! (एव) उसी प्रकार (मे) मेरा (वर्चः ओजः बलम् ध्रियताम्) ब्रह्मवर्चस्, तेज, ओज और बल भी संगृहीत हो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। मधुकशा, अश्विनौ च देवताः। मधुसूक्तम्। १, ४, ५ त्रिष्टुभः। २ त्रिष्टुब्गर्भापंक्तिः। ३ पराऽनुष्टुप्। ६ यवमध्या अतिशाक्वरगर्भा महाबृहती। ७ यवमध्या अति जागतगर्भा महाबृहती। ८ बृहतीगर्भा संस्तार पंक्तिः। १० पराउष्णिक् पंक्तिः। ११, १३, १५, १६, १८, १९ अनुष्टुभः। १४ पुर उष्णिक्। १७ उपरिष्टाद् बृहती। २० भुरिग् विस्तारपंक्तिः २१ एकावसाना द्विपदा आर्ची अनुष्टुप्। २२ त्रिपदा ब्राह्मी पुर उष्णिक्। २३ द्विपदा आर्ची पंक्तिः। २४ त्र्यवसाना षट्पदा अष्टिः। ९ पराबृहती प्रस्तारपंक्तिः॥
इस भाष्य को एडिट करें