Loading...
अथर्ववेद के काण्ड - 4 के सूक्त 36 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 36/ मन्त्र 10
    सूक्त - चातनः देवता - सत्यौजा अग्निः छन्दः - अनुष्टुप् सूक्तम् - सत्यौजा अग्नि सूक्त
    42

    अ॒भि तं निरृ॑तिर्धत्ता॒मश्व॑मिवाश्वाभि॒धान्या॑। म॒ल्वो यो मह्यं॒ क्रुध्य॑ति॒ स उ॒ पाशा॒न्न मु॑च्यते ॥

    स्वर सहित पद पाठ

    अ॒भि । तम् । नि:ऽऋ॑ति: । ध॒त्ता॒म् । अश्व॑म्ऽइव । अ॒श्व॒ऽअ॒भि॒धान्या॑ । म॒ल्व: । य: । मह्य॑म् । क्रुध्य॑ति । स: । ऊं॒ इति॑ । पाशा॑त् । न । मु॒च्य॒ते॒ ॥३६.१०॥

    स्वर रहित मन्त्र

    अभि तं निरृतिर्धत्तामश्वमिवाश्वाभिधान्या। मल्वो यो मह्यं क्रुध्यति स उ पाशान्न मुच्यते ॥

    स्वर रहित पद पाठ

    अभि । तम् । नि:ऽऋति: । धत्ताम् । अश्वम्ऽइव । अश्वऽअभिधान्या । मल्व: । य: । मह्यम् । क्रुध्यति । स: । ऊं इति । पाशात् । न । मुच्यते ॥३६.१०॥

    अथर्ववेद - काण्ड » 4; सूक्त » 36; मन्त्र » 10
    Acknowledgment

    हिन्दी (1)

    विषय

    राजा के धर्म का उपदेश।

    पदार्थ

    (तम्) उस को (निर्ऋतिः) अलक्ष्मी (अभि धत्ताम्) बांध लेवे (अश्वम् इव) जैसे घोड़े को (अश्वाभिधान्या) घोड़ा बाँधने की रसरी से। (यः मल्वः) जो मलिन पुरुष (मह्यम्) मुझ पर (क्रुध्यति) क्रोध करता है, (सः) वह (पाशात्) फाँसी से (उ न) कभी नहीं (मुच्यते) छुटता है ॥१०॥

    भावार्थ

    राजा कुकर्मी दुष्टों को यथावत् दण्ड देकर सत्पुरुषों की रक्षा करे ॥१०॥

    टिप्पणी

    १०−(अभि धत्ताम्) बध्नातु (तम्) दुष्टम् (निर्ऋतिः) अ० ३।११।२। कृच्छ्रापत्तिः-निरु० २।७। अलक्ष्मीः (अश्वम् इव) यथा तुरङ्गम् (अश्वाभिधान्या) अश्वमभिदधाति बध्नात्यनया सा अश्वाभिधानी। करणे-ल्युट् टित्त्वाद् ङीप्। अश्वबन्धनरज्ज्वा (मल्वः) कॄगॄशॄदॄभ्यो वः। उ० १।१५५। इति मल धारणे-व। मलिनः। क्रूरः (यः) (मह्यम्) क्रुधद्रुहेर्ष्या०। पा० १।४।३७। इति चतुर्थी (क्रुध्यति) कुप्यति (सः) (उ) एव (पाशात्) बन्धनात् (न) (मुच्यते) वियुज्यते ॥

    इंग्लिश (1)

    Subject

    The Power of Truth

    Meaning

    Like a rope arresting a horse, adversity would seize that malcontent, who smoulders in anger against me. He would never be free from that noose.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    Top