अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 25
सूक्त - कौशिकः
देवता - विष्णुक्रमः
छन्दः - त्र्यवसाना षट्पदा यथाक्षरं शक्वरी, अतिशक्वरी
सूक्तम् - विजय प्राप्ति सूक्त
विष्णोः॒ क्रमो॑ऽसि सपत्न॒हा पृ॑थि॒वीसं॑शितो॒ऽग्निते॑जाः। पृ॑थि॒वीमनु॒ वि क्र॑मे॒ऽहं पृ॑थि॒व्यास्तं निर्भ॑जामो॒ यो॒स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः। स मा जी॑वी॒त्तं प्रा॒णो ज॑हातु ॥
स्वर सहित पद पाठविष्णो॑: । क्रम॑: । अ॒सि॒ । स॒प॒त्न॒ऽहा । पृ॒थि॒वीऽसं॑शित: । अ॒ग्निऽते॑जा: । पृ॒थि॒वीम् । अनु॑ । वि । क्र॒मे॒ । अ॒हम् । पृ॒थि॒व्या: । तम् । नि: । भ॒जा॒म॒: । य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म: । स: । मा । जी॒वी॒त् । तम् । प्रा॒ण: । ज॒हा॒तु॒ ॥५.२५॥
स्वर रहित मन्त्र
विष्णोः क्रमोऽसि सपत्नहा पृथिवीसंशितोऽग्नितेजाः। पृथिवीमनु वि क्रमेऽहं पृथिव्यास्तं निर्भजामो योस्मान्द्वेष्टि यं वयं द्विष्मः। स मा जीवीत्तं प्राणो जहातु ॥
स्वर रहित पद पाठविष्णो: । क्रम: । असि । सपत्नऽहा । पृथिवीऽसंशित: । अग्निऽतेजा: । पृथिवीम् । अनु । वि । क्रमे । अहम् । पृथिव्या: । तम् । नि: । भजाम: । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: । स: । मा । जीवीत् । तम् । प्राण: । जहातु ॥५.२५॥
अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 25
Translation -
O King! you are the representative of Vishnu, the All-pervading God amongst the subjects, you are the slayer of enemies, you are praised on the earth and you possess the refulgence of fire. You should think “I will play my glorious part on the earth”. So that we bar from the earth that man who hates me and whom we abhor. Let him not be alive and let the vital air abondon him.