अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 26
सूक्त - कौशिकः
देवता - विष्णुक्रमः
छन्दः - त्र्यवसाना षट्पदा यथाक्षरं शक्वरी, अतिशक्वरी
सूक्तम् - विजय प्राप्ति सूक्त
विष्णोः॒ क्रमो॑ऽसि सपत्न॒हान्तरि॑क्षसंशितो वा॒युते॑जाः। अ॒न्तरि॑क्ष॒मनु॒ वि क्र॑मे॒ऽहं अ॒न्तरि॑क्षा॒त्तं निर्भ॑जामो॒ यो॒स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः। स मा जी॑वी॒त्तं प्रा॒णो ज॑हातु ॥
स्वर सहित पद पाठविष्णो॑: । क्रम॑: । अ॒सि॒ । स॒प॒त्न॒ऽहा । अ॒न्तरि॑क्षऽसंशित: । वा॒युऽते॑जा: । अ॒न्तरि॑क्षम् । अनु॑ । वि । क्र॒मे॒ । अ॒हम् । अ॒न्तरि॑क्षात् । तम् । नि: । भ॒जा॒म॒: । य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म: । स: । मा । जी॒वी॒त् । तम् । प्रा॒ण: । ज॒हा॒तु॒ ॥५.२६॥
स्वर रहित मन्त्र
विष्णोः क्रमोऽसि सपत्नहान्तरिक्षसंशितो वायुतेजाः। अन्तरिक्षमनु वि क्रमेऽहं अन्तरिक्षात्तं निर्भजामो योस्मान्द्वेष्टि यं वयं द्विष्मः। स मा जीवीत्तं प्राणो जहातु ॥
स्वर रहित पद पाठविष्णो: । क्रम: । असि । सपत्नऽहा । अन्तरिक्षऽसंशित: । वायुऽतेजा: । अन्तरिक्षम् । अनु । वि । क्रमे । अहम् । अन्तरिक्षात् । तम् । नि: । भजाम: । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: । स: । मा । जीवीत् । तम् । प्राण: । जहातु ॥५.२६॥
अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 26
Translation -
O King! you are the representative of Vishnu, the All-pervading God amongst the subjects, you are slayer-of enemies, you are praised in the atmospheric region and you possess the vigor of wind. You should think “I will play my glorious part in the atmospheric region”. So that we bar from the earth that man who hates me and whom we abhor. Let him not be alive and let the vital air abandon him,