अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 9
सूक्त - भृगुः
देवता - अग्निः
छन्दः - अनुष्टुब्गर्भा विपरीतपादलक्ष्मा पङ्क्तिः
सूक्तम् - यक्ष्मारोगनाशन सूक्त
क्र॒व्याद॑म॒ग्निमि॑षि॒तो ह॑रामि॒ जना॑न्दृं॒हन्तं॒ वज्रे॑ण मृ॒त्युम्। नि तं शा॑स्मि॒ गार्ह॑पत्येन वि॒द्वान्पि॑तॄ॒णां लो॒केऽपि॑ भा॒गो अ॑स्तु ॥
स्वर सहित पद पाठक्र॒व्य॒ऽअद॑म् । अ॒ग्निम् । इ॒षि॒त: । ह॒रा॒मि॒ । जना॑न् । दृं॒हन्त॑म् । वज्रे॑ण । मृ॒त्युम् । नि । तम् । शा॒स्मि॒ । गार्ह॑ऽपत्येन । वि॒द्वान् । पि॒तॄ॒णाम् । लो॒के । अपि॑ । भा॒ग: । अ॒स्तु॒ ॥२.९॥
स्वर रहित मन्त्र
क्रव्यादमग्निमिषितो हरामि जनान्दृंहन्तं वज्रेण मृत्युम्। नि तं शास्मि गार्हपत्येन विद्वान्पितॄणां लोकेऽपि भागो अस्तु ॥
स्वर रहित पद पाठक्रव्यऽअदम् । अग्निम् । इषित: । हरामि । जनान् । दृंहन्तम् । वज्रेण । मृत्युम् । नि । तम् । शास्मि । गार्हऽपत्येन । विद्वान् । पितॄणाम् । लोके । अपि । भाग: । अस्तु ॥२.९॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 9
Translation -
I, knowing its all aspects fix aside for its purpose the devastaing Kravyad fire which kills the men with its bolt-like power. I competent in its use control this fire through the fire called Garhpatya and let it have its share in the performances of fathers and mothers.