Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 21/ मन्त्र 7
    ऋषिः - गयप्लात ऋषिः देवता - स्वर्ग्यानौर्देवता छन्दः - यवमध्या गायत्री स्वरः - षड्जः
    9

    सु॒नाव॒मा रु॑हेय॒मस्र॑वन्ती॒मना॑गसम्। श॒तारि॑त्रा स्वस्तये॑॥७॥

    स्वर सहित पद पाठ

    सु॒नाव॒मिति॑ सु॒ऽनाव॑म्। आ। रु॒हे॒य॒म्। अस्र॑वन्तीम्। अना॑गसम्। श॒तारि॑त्रा॒मिति॑ श॒तऽअ॑रित्राम्। स्व॒स्तये॑ ॥७ ॥


    स्वर रहित मन्त्र

    सुनावमा रुहेयमस्रवन्तीमनागसम् । शतारित्राँ स्वस्तये ॥


    स्वर रहित पद पाठ

    सुनावमिति सुऽनावम्। आ। रुहेयम्। अस्रवन्तीम्। अनागसम्। शतारित्रामिति शतऽअरित्राम्। स्वस्तये॥७॥

    यजुर्वेद - अध्याय » 21; मन्त्र » 7
    Acknowledgment

    अन्वयः - हे मनुष्याः! यथाऽहं स्वस्तयेऽस्रवन्तीमनागसं शतारित्राां सुनावमारुहेयं तथास्यां यूयमप्यारोहत॥७॥

    पदार्थः -
    (सुनावम्) शोभनां सुनिर्मितां नावम् (आ) (रुहेयम्) (अस्रवन्तीम्) छिद्रादिदोषरहिताम् (अनागसम्) निर्माणदोषरहिताम् (शतारित्राम्) शतमरित्राणि यस्यास्ताम् (स्वस्तये) सुखाय॥७॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्या महतीर्नावः सुपरीक्ष्य तासु स्थित्वा समुद्रादिपारावारौ गच्छेयुः। यत्र बहून्यरित्रादीनि स्युस्ता नावोऽतीवोत्तमाः स्युः॥७॥

    इस भाष्य को एडिट करें
    Top