Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 21/ मन्त्र 45
    ऋषिः - स्वस्त्यात्रेय ऋषिः देवता - यजमानर्त्विजो देवताः छन्दः - भुरिक् प्राजापत्योष्णिक् स्वरः - ऋषभः
    9

    होता॑ यक्ष॒दिन्द्र॑मृष॒भस्य॑ ह॒विष॒ऽआव॑यद॒द्य म॑ध्य॒तो मेद॒ऽउद्भृ॑तं पु॒रा द्वेषो॑भ्यः पु॒रा पौरु॑षेय्या गृ॒भो घस॑न्नू॒नं घा॒सेऽअ॑ज्राणां॒ यव॑सप्रथमाना सु॒मत्क्ष॑राणा शतरु॒द्रिया॑णामग्निष्वा॒त्तानां॒ पीवो॑पवसनानां पार्श्व॒तः श्रो॑णि॒तः शि॑ताम॒तऽउ॑त्साद॒तोऽङ्गा॑दङ्गा॒दव॑त्तानां॒ कर॑दे॒वमिन्द्रो॑ जु॒षता॑ ह॒विर्होत॒र्यज॑॥४५॥

    स्वर सहित पद पाठ

    होता॑। य॒क्ष॒त्। इन्द्र॑म्। ऋ॒ष॒भस्य॑। ह॒विषः॑। आ। अ॒व॒य॒त्। अ॒द्य। म॒ध्य॒तः। मेदः॑। उद्भृ॑त॒मित्युत्ऽभृ॑तम्। पु॒रा। द्वेषो॑भ्य॒ इति॒ द्वेषः॑ऽभ्यः। पु॒रा। पौरु॑षेय्याः। गृ॒भः। घस॑त्। नू॒नम्। घा॒सेऽअ॑ज्राणा॒मिति॑ घा॒सेऽअ॑ज्राणाम्। यव॑सप्रथमाना॒मिति॒ यव॑सऽप्रथमानाम्। सु॒मत्क्ष॑राणा॒मिति॑ सु॒मत्ऽक्ष॑राणाम्। श॒त॒रु॒द्रिया॑णा॒मिति॑ शतऽरु॒द्रिया॑णाम्। अ॒ग्नि॒ष्वा॒त्ताना॑म्। अ॒ग्नि॒स्वा॒त्ताना॒मित्य॑ग्निऽस्वा॒त्ताना॑म्। पीवो॑पवसनाना॒मिति॒ पीवः॑ऽउपवसनानाम्। पा॒र्श्व॒तः श्रो॒णि॒तः। शि॒ता॒म॒तः। उ॒त्सा॒द॒त इत्यु॑त्ऽसाद॒तः। अङ्गा॑दङ्गा॒दित्यङ्गा॑त्ऽअङ्गात्। अव॑त्तानाम्। कर॑त्। ए॒वम्। इन्द्रः॑। जु॒षता॑म्। ह॒विः। होतः॑। यज॑ ॥४५ ॥


    स्वर रहित मन्त्र

    होता यक्षदिन्द्रमृषभस्य हविषऽआवयदद्य मध्यतो मेद उद्भृतम्पुरा द्वेषोभ्यः पुरा पौरुषेय्या गृभो घसन्नूनङ्घासेऽअज्राणाँयवसप्रथमानाँ सुमत्क्षराणाँ शतरुद्रियाणामग्निष्वात्तानाम्पीवोपवसानाम्पार्श्वतः श्रोणितः शितामतऽउत्सादतोङ्गादङ्गादवत्तानाङ्करदेवमिन्द्रो जुषताँ हविर्हातर्यज ॥


    स्वर रहित पद पाठ

    होता। यक्षत्। इन्द्रम्। ऋषभस्य। हविषः। आ। अवयत्। अद्य। मध्यतः। मेदः। उद्भृतमित्युत्ऽभृतम्। पुरा। द्वेषोभ्य इति द्वेषःऽभ्यः। पुरा। पौरुषेय्याः। गृभः। घसत्। नूनम्। घासेऽअज्राणामिति घासेऽअज्राणाम्। यवसप्रथमानामिति यवसऽप्रथमानाम्। सुमत्क्षराणामिति सुमत्ऽक्षराणाम्। शतरुद्रियाणामिति शतऽरुद्रियाणाम्। अग्निष्वात्तानाम्। अग्निस्वात्तानामित्यग्निऽस्वात्तानाम्। पीवोपवसनानामिति पीवःऽउपवसनानाम्। पार्श्वतः श्रोणितः। शितामतः। उत्सादत इत्युत्ऽसादतः। अङ्गादङ्गादित्यङ्गात्ऽअङ्गात्। अवत्तानाम्। करत्। एवम्। इन्द्रः। जुषताम्। हविः। होतः। यज॥४५॥

    यजुर्वेद - अध्याय » 21; मन्त्र » 45
    Acknowledgment

    अन्वयः - हे होतर्यथा होता घासेअज्राणां यवसप्रथमानां सुमत्क्षराणामग्निष्वात्तानां पीवोपवसनानां शतरुद्रियाणामवत्तानां पार्श्वतः श्रोणितः शितामत उत्सादतोऽङ्गादङ्गाद्धविरिन्द्रं च करदिन्द्रो जुषतां यथाऽद्यर्षभस्य हविषो मध्यतो मेद उद्भृतमावयत् द्वेषोभ्यः पुरा गृभः पौरुषेय्याः पुरा नूनं यक्षदेवं घसत् तथा त्वं यज॥४५॥

    पदार्थः -
    (होता) आदाता (यक्षत्) सत्कुर्यात् (इन्द्रम्) परमैश्वर्यम् (ऋषभस्य) उत्तमस्य (हविषः) आदातुमर्हस्य (आ) (अवयत्) व्याप्नुयात् (अद्य) (मध्यतः) मध्ये भवात् (मेदः) स्निग्धम् (उद्भृतम्) उत्कृष्टतया पोषितम् (पुरा) पुरस्तात् (द्वेषोभ्यः) विरोधिभ्यः (पुरा) (पौरुषेय्याः) पुरुषसम्बन्धिन्या विद्यायाः (गृभः) ग्रहीतुं योग्यायाः (घसत्) अद्यात् (नूनम्) (घासेअज्राणाम्) (यवसप्रथमानाम्) यवसस्य विस्तारकाणाम् (सुमत्क्षराणाम्) सुष्ठु प्रमादनाशकानाम् (शतरुद्रियाणाम्) शतानां रुद्राणां दुष्टरोदकानाम् (अग्निष्वात्तानाम्) अग्निना जाठराग्निना सुष्ठु गृहीतान्नानाम् (पीवोपवसनानाम्) स्थूलदृढाऽच्छादनानाम् (पार्श्वतः) इतस्ततोङ्गात् (श्रोणितः) क्रमशः (शितामतः) तीक्ष्णत्वेनोछिन्नरोगात् (उत्सादतः) त्यागमात्रात् (अङ्गादङ्गात्) प्रत्यङ्गात् (अवत्तानाम्) उदारचेतसाम् (करत्) कुर्यात् (एवम्) (इन्द्रः) परमैश्वर्यवान् राजा (जुषताम्) सेवताम् (हविः) रोगनाशकं वस्तु (होतः) (यज)॥४५॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। ये मनुष्या विदुषां संगेन दुष्टान् निवार्य्य श्रेष्ठान् सत्कृत्य ग्रहीतव्यं गृहीत्वाऽन्यान् ग्राहयित्वा सर्वानुन्नयन्ति, ते पूज्या जायन्ते॥४५॥

    इस भाष्य को एडिट करें
    Top