Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 21/ मन्त्र 18
    ऋषिः - स्वस्त्यात्रेय ऋषिः देवता - विश्वेदेवा देवताः छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः
    6

    दैव्या॒ होता॑रा भि॒षजेन्द्रे॑ण स॒युजा॑ यु॒जा।जग॑ती॒ छन्द॑ऽइन्द्रि॒यम॑न॒ड्वान् गौर्वयो॑ दधुः॥१८॥

    स्वर सहित पद पाठ

    दैव्या॑। होता॑रा। भि॒षजा॑। इन्द्रे॑ण स॒युजेति॑ स॒ऽयुजा॑। यु॒जा। जग॑ती। छन्दः॑। इ॒न्द्रि॒यम्। अ॒न॒ड्वान्। गौः। वयः॑। द॒धुः॒ ॥१८ ॥


    स्वर रहित मन्त्र

    दैव्या होतारा भिषजेन्द्रेण सयुजा युजा । जगती छन्दऽइन्द्रियमनड्वान्गौर्वयो दधुः ॥


    स्वर रहित पद पाठ

    दैव्या। होतारा। भिषजा। इन्द्रेण सयुजेति सऽयुजा। युजा। जगती। छन्दः। इन्द्रियम्। अनड्वान्। गौः। वयः। दधुः॥१८॥

    यजुर्वेद - अध्याय » 21; मन्त्र » 18
    Acknowledgment

    अन्वयः - हे मनुष्याः! यथेन्द्रेण सयुजा युजा दैव्या होतारा भिषजाऽनड्वान् गौर्जगती छन्दश्च वय इन्द्रियं दधुस्तथैतद्भवन्तो दधीरन्॥१८॥

    पदार्थः -
    (दैव्या) देवेषु विद्वत्सु कुशलौ (होतारा) दातारौ (भिषजा) सद्वैद्यौ (इन्द्रेण) ऐश्वर्य्येण (सयुजा) यौ समानं युङ्क्तस्तौ (युजा) समाहितौ (जगती) (छन्दः) (इन्द्रियम्) धनम् (अनड्वान्) वृषभः (गौः) (वयः) कमनीयम् (दधुः) दध्युः॥१८॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। यथा वैद्यैः स्वेषां परेषां च रोगान्निवार्य्य स्वेऽन्ये चैश्वर्य्यवन्तः क्रियन्ते तथा सर्वैर्मनुष्यैर्वर्तितव्यम्॥१८॥

    इस भाष्य को एडिट करें
    Top