Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 21/ मन्त्र 25
    ऋषिः - स्वस्त्यात्रेय ऋषिः देवता - इन्द्रो देवता छन्दः - अनुष्टुप् स्वरः - गान्धारः
    6

    व॒र्षाभि॑र्ऋ॒तुना॑दि॒त्या स्तोमे॑ सप्तद॒शे स्तु॒ताः।वै॒रू॒पेण॑ वि॒शौज॑सा ह॒विरिन्द्रे॒ वयो॑ दधुः॥२५॥

    स्वर सहित पद पाठ

    व॒र्षाभिः॑। ऋ॒तुना॑। आ॒दि॒त्याः। स्तोमे॑। स॒प्त॒द॒श इति॑ सप्तऽद॒शे। स्तु॒ताः। वै॒रू॒पेण॑। वि॒शा। ओज॑सा। ह॒विः। इन्द्रे॑। वयः॑। द॒धुः॒ ॥२५ ॥


    स्वर रहित मन्त्र

    वर्षाभिरृतुनादित्या स्तोमे सप्तदशे स्तुताः । वैरूपेण विशौजसा हविरिन्द्रे वयो दधुः ॥


    स्वर रहित पद पाठ

    वर्षाभिः। ऋतुना। आदित्याः। स्तोमे। सप्तदश इति सप्तऽदशे। स्तुताः। वैरूपेण। विशा। ओजसा। हविः। इन्द्रे। वयः। दधुः॥२५॥

    यजुर्वेद - अध्याय » 21; मन्त्र » 25
    Acknowledgment

    अन्वयः - हे मनुष्याः! ये वर्षाभिर्ऋतुना वैरूपेणौजसा विशा सह वर्त्तमाना आदित्याः सप्तदशे स्तोमे स्तुता इन्द्रे हविर्वयो दधुस्तान् यूयं विज्ञायोपकुरुत॥२५॥

    पदार्थः -
    (वर्षाभिः) वर्षन्ति मेघा यासु ताभिः (ऋतुना) (आदित्याः) द्वादश मासा उत्तमा विद्वांसो वा (स्तोमे) स्तुतिव्यवहारे (सप्तदशे) एतत्संख्याके (स्तुताः) प्रशंसिताः (वैरूपेण) विविधानां रूपाणां भावेन (विशा) प्रजया (ओजसा) बलेन (हविः) दातव्यम् (इन्द्रे) जीवे (वयः) कालविज्ञानम् (दधुः) दध्युः॥२५॥

    भावार्थः - ये मनुष्या विद्वत्सङ्गेन कालस्य स्थूलसूक्ष्मगती विज्ञायैकक्षणमपि व्यर्थे न नयन्ति, ते विचित्रमैश्वर्यमाप्नुवन्ति॥२५॥

    इस भाष्य को एडिट करें
    Top