Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 21/ मन्त्र 8
    ऋषिः - विश्वामित्र ऋषिः देवता - मित्रावरुणौ देवते छन्दः - निचृद गायत्री स्वरः - षड्जः
    6

    आ नो॑ मित्रावरुणा घृ॒तैर्गव्यू॑तिमुक्षतम्। मध्वा॒ रजा॑सि सुक्रतू॥८॥

    स्वर सहित पद पाठ

    आ। नः॒। मि॒त्रा॒व॒रु॒णा॒। घृ॒तैः। गव्यू॑तिम्। उ॒क्ष॒त॒म्। मध्वा॑। रजा॑ꣳसि। सु॒क्र॒तू॒ इति॑ सुऽक्रतू ॥८ ॥


    स्वर रहित मन्त्र

    आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम् । मध्वा रजाँसि सुक्रतू ॥


    स्वर रहित पद पाठ

    आ। नः। मित्रावरुणा। घृतैः। गव्यूतिम्। उक्षतम्। मध्वा। रजाꣳसि। सुक्रतू इति सुऽक्रतू॥८॥

    यजुर्वेद - अध्याय » 21; मन्त्र » 8
    Acknowledgment

    अन्वयः - हे मित्रावरुणा प्राणोदानवद्वर्त्तमानौ सुक्रतू शिल्पिनौ! युवां घृतैर्नो गव्यूतिमुक्षतमा मध्वा रजांस्युक्षतम्॥८॥

    पदार्थः -
    (आ) समन्तात् (नः) अस्माकम् (मित्रावरुणा) प्राणोदानाविव (घृतैः) उदकैः (गव्यूतिम्) क्रोशद्वयम् (उक्षतम्) सिंचतम् (मध्वा) मधुना जलेन (रजांसि) लोकान् (सुक्रतू) शोभनाः प्रज्ञाः कर्माणि वा ययोस्तौ॥८॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। यदि शिल्पिनो यानानि जलादिना चालयेयुस्तर्हि त ऊर्ध्वाऽधोमार्गेषु गन्तुं शक्नुयुः॥८॥

    इस भाष्य को एडिट करें
    Top