Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 8/ मन्त्र 29
    ऋषिः - अत्रिर्ऋषिः देवता - दम्पती देवते छन्दः - भूरिक् आर्षी अनुष्टुप्, स्वरः - गान्धारः
    6

    यस्यै॑ ते य॒ज्ञियो॒ गर्भो॒ यस्यै॒ योनि॑र्हिर॒ण्ययी॑। अङ्गा॒न्यह्रु॑ता॒ यस्य॒ तं मा॒त्रा सम॑जीगम॒ꣳ स्वाहा॑॥२९॥

    स्वर सहित पद पाठ

    यस्यै॑। ते॒। य॒ज्ञियः॑। गर्भः॑। यस्यै॑। योनिः॑। हि॑र॒ण्ययी॑। अङ्गा॑नि। अह्रु॑ता। यस्य॑। तम्। मा॒त्रा। सम्। अ॒जी॒ग॒म॒म्। स्वाहा॑ ॥२९॥


    स्वर रहित मन्त्र

    यस्यै ते यज्ञियो गर्भा यस्यै योनिर्हिरण्यी । अङ्गान्यह्रुता यस्य तम्मात्रा समजीगमँ स्वाहा ॥


    स्वर रहित पद पाठ

    यस्यै। ते। यज्ञियः। गर्भः। यस्यै। योनिः। हिरण्ययी। अङ्गानि। अह्रुता। यस्य। तम्। मात्रा। सम्। अजीगमम्। स्वाहा॥२९॥

    यजुर्वेद - अध्याय » 8; मन्त्र » 29
    Acknowledgment

    अन्वयः - हे विवाहिते सुभगे! अहं पतिः यस्यै यस्यास्ते तव हिरण्ययी योनिरस्ति, यस्यै यस्यास्तव यज्ञियो गर्भोऽस्ति, तस्यां त्वयि यस्य गर्भस्याह्रुता कुटिलान्यङ्गानि स्युस्तम्मात्रा गर्भमानकर्त्र्या त्वया सह स्वाहा समजीगमं सम्यक् प्राप्नुयाम्॥२९॥

    पदार्थः -
    (यस्यै) सुलक्षणायाः स्त्रियाः, षष्ठ्यर्थे चतुर्थी (ते) तव (यज्ञियः) यो यज्ञमर्हति (गर्भः) (यस्यै) सुभागायाः (योनिः) जन्मस्थानम् (हिरण्ययी) रोगरहिता शुद्धा (अङ्गानि) अङ्कितानि व्यञ्जकानि वा। अङ्गेति क्षिप्रनाम, अङ्गितमेवाञ्चितं भवति। (निरु॰५।१७) (अह्रुता) अकुटिलानि सरलानि शोभनानि, शेश्छन्दसि बहुलम्। (अष्टा॰६।१।७०) इति लुक् (यस्य) (तम्) (मात्रा) गर्भमानकर्त्र्या त्वया सह समागम्य (सम्) (अजीगमम्) सम्यक् प्राप्नुयाम् (स्वाहा) धर्म्मयुक्त्या क्रियया। अयं मन्त्रः (शत॰ ४। ५। २। १०-११) व्याख्यातः॥२९॥

    भावार्थः - पुरुषेण गृहाश्रमे जितेन्द्रियता वीर्य्यशुद्ध्युन्नतिब्रह्मचर्य्यता सम्पादनीया, स्त्रियाप्येवम्, अन्यच्च गर्भधारणं गर्भाशययोन्यारोग्यकरणं तद्रक्षणं च कार्य्यम्, परस्परमाह्लादेन सन्तानोत्पादने कृते प्रशस्तरूपगुणकर्मस्वभावान्यपत्यानि जायन्त इति वेद्यम्॥२९॥

    इस भाष्य को एडिट करें
    Top