Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 8/ मन्त्र 13
    ऋषिः - भरद्वाज ऋषिः देवता - गृहपतयो विश्वेदेवा देवताः छन्दः - साम्नी उष्णिक्,निचृत् साम्नी उष्णिक्,निचृत् साम्नी अनुष्टुप्,भूरिक् प्राजापत्या गायत्री,निचृत् आर्षी उष्णिक् स्वरः - ऋषभः
    11

    दे॒वकृ॑त॒स्यैन॑सोऽव॒यज॑नमसि मनु॒ष्यकृत॒स्यैन॑सोऽव॒यज॑नमसि पि॒तृकृ॑त॒स्यैन॑सोऽव॒यज॑नम-स्या॒त्मकृ॑त॒स्यैन॑सोऽव॒यज॑नम॒स्येन॑सऽएनसोऽव॒यज॑नमसि। यच्चा॒हमेनो॑ वि॒द्वाँश्च॒कार॒ यच्चावि॑द्वाँ॒स्तस्य॒ सर्व॒स्यैन॑सोऽव॒यज॑नमसि॥१३॥

    स्वर सहित पद पाठ

    दे॒वकृ॑त॒स्येति॑ दे॒वऽकृ॑तस्य। एन॑सः। अ॒व॒यज॑न॒मित्य॑व॒ऽयज॑नम्। अ॒सि॒। म॒नु॒ष्य॒कृत॒स्येति॑ म॒नु॒ष्य᳖ऽकृत॑स्य। एन॑सः। अ॒व॒यज॑न॒मित्य॑व॒ऽयज॑नम्। अ॒सि॒। पि॒तृकृ॑त॒स्येति॑ पि॒तृऽकृ॑तस्य। एन॑सः। अ॒व॒यज॑न॒मित्य॑व॒ऽयज॑नम्। अ॒सि॒। आ॒त्मकृ॑त॒स्येत्या॒त्मऽकृ॑तस्य। एन॑सः। अ॒व॒यज॑न॒मित्य॑व॒ऽयज॑नम्। अ॒सि॒। एन॑स एनस॒ इत्येन॑सःऽएनसः। अ॒व॒यज॑न॒मित्य॑व॒ऽयज॑नम्। अ॒सि॒। यत्। च॒। अ॒हम्। एनः॑। वि॒द्वान्। च॒कार॑। यत्। च॒। अवि॑द्वान्। तस्य॑। सर्व॑स्य। एन॑सः। अ॒व॒यज॑न॒मित्य॑व॒ऽयज॑नम्। अ॒सि॒ ॥१३॥


    स्वर रहित मन्त्र

    देवकृतस्यैनसोवयजनमसि मनुष्यकृतस्यैनसोवयजनमसि पितृकृतस्यैनसोवयजनमस्यैत्मकृतस्यैनसो वयजनमसि एनसएनसो वयजनमसि । यच्चाहमेनो विद्वाँश्चकार यच्चाविद्वाँस्तस्य सर्वस्यैनसो वयजनमसि । यजुर्वेद 8ण्1३॥


    स्वर रहित पद पाठ

    देवकृतस्येति देवऽकृतस्य। एनसः। अवयजनमित्यवऽयजनम्। असि। मनुष्यकृतस्येति मनुष्यऽकृतस्य। एनसः। अवयजनमित्यवऽयजनम्। असि। पितृकृतस्येति पितृऽकृतस्य। एनसः। अवयजनमित्यवऽयजनम्। असि। आत्मकृतस्येत्यात्मऽकृतस्य। एनसः। अवयजनमित्यवऽयजनम्। असि। एनस एनस इत्येनसःऽएनसः। अवयजनमित्यवऽयजनम्। असि। यत्। च। अहम्। एनः। विद्वान्। चकार। यत्। च। अविद्वान्। तस्य। सर्वस्य। एनसः। अवयजनमित्यवऽयजनम्। असि॥१३॥

    यजुर्वेद - अध्याय » 8; मन्त्र » 13
    Acknowledgment

    अन्वयः - हे सर्वोपकारिन् सखे! त्वं देवकृतस्यैनसोऽवयजनमसि, मनुष्यकृतस्यैनसोऽवयजनमसि, पितृकृतस्यैनसोऽवयजमसि, आत्मकृतस्यैनसोऽवयजनमसि। एनस एनसोऽवयजनमसि, विद्वानहं यच्चैनः पापं चकार कृतवान, करोमि, करिष्यामि, अविद्वानहं यच्चैनः कृतवान् करोमि, करिष्यामि वा तस्य सर्वस्यैनसोऽवयजनं चासि॥१३॥

    पदार्थः -
    (देवकृतस्य) दानशीलकृतस्य (एनसः) पापस्य (अवयजनम्) पृथक्करणम् (असि) (मनुष्यकृतस्य) साधारणजनेनाचरितस्य (एनसः) अपराधस्य (अवयजनम्) दूरीकरणम् (असि) (पितृकृतस्य) जनककृतस्य (एनसः) विरोधाचरणस्य (अवयजनम्) परिहरणम् (असि) (आत्मकृतस्य) स्वयमाचरितस्य (एनसः) पापस्य (अवयजनम्) (असि) (एनसः) (एनसः) अधर्म्मस्याधर्म्मस्य (अवयजनम्) परिहरणम् (असि) (यत्) अतीते काले (च) वर्त्तमाने (अहम्) (एनः) अधर्म्माचरणम् (विद्वान्) जानन् सन् (चकार) कृतवान्, करोमि, करिष्यामि वा, अत्र छन्दसि लुङ्लिङ्लिटः। (अष्टा॰३।४।६) इति कालसामान्ये लिट्। (यत्) (च) अविद्यासमुच्चये (अविद्वान्) अजानन् सन् (तस्य) (सर्वस्य) (एनसः) दुष्टाचरणस्य (अवयजनम्) दूरीकरणम् (असि)। अयं मन्त्रः (शत॰ ४। ३। ६। १) व्याख्यातः॥१३॥

    भावार्थः - अत्रोपमालङ्कारः। यथा विद्वान् गृहाश्रमी पुरुषो दानादिप्रसक्तपुरुषाणामपराधदूरीकरणे प्रयतेत। जानन्नजानन् वात्मकृतमपराधं स्वयं त्यजेदन्यकृतमन्यस्मान्निवारयेत्। तथानुष्ठाय सर्वे यथोक्तं सुखं प्राप्नुयुरिति॥१३॥

    इस भाष्य को एडिट करें
    Top