Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 8/ मन्त्र 34
    ऋषिः - मधुच्छन्दा ऋषिः देवता - गृहपतिर्देवता छन्दः - विराट आर्षी अनुष्टुप्, स्वरः - गान्धारः
    6

    यु॒क्ष्वा हि के॒शिना॒ हरी॒ वृष॑णा कक्ष्य॒प्रा। अथा॑ नऽइन्द्र सोमपा गि॒रामुप॑श्रुतिं॑ चर। उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिन॑ऽए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने॑॥३४॥

    स्वर सहित पद पाठ

    यु॒क्ष्व। हि। के॒शिना॑। हरी॒ऽइति॒ हरी॑। वृष॑णा। क॒क्ष्य॒प्रेति॑ कक्ष्य॒ऽप्रा। अथ॑। नः॒। इ॒न्द्र॒। सो॒मपा॒ इति॑ सोमऽपाः। गि॒राम्। उप॑श्रुति॒मित्युप॑ऽश्रुतिम्। च॒र॒। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। इन्द्रा॑य। त्वा॒। षो॒ड॒शिने॑। ए॒षः। ते॒। योनिः॑। इन्द्रा॑य। त्वा॒। षो॒ड॒शिने॑ ॥३४॥


    स्वर रहित मन्त्र

    युक्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा । अथा न इन्द्र सोमपा गिरामुपश्रुतिञ्चर । उपयामगृहीतोसीन्द्राय त्वा षोडशिने ऽएष ते योनिरिन्द्राय त्वा षोडशिने ॥


    स्वर रहित पद पाठ

    युक्ष्व। हि। केशिना। हरीऽइति हरी। वृषणा। कक्ष्यप्रेति कक्ष्यऽप्रा। अथ। नः। इन्द्र। सोमपा इति सोमऽपाः। गिराम्। उपश्रुतिमित्युपऽश्रुतिम्। चर। उपयामगृहीत इत्युपयामऽगृहीतः। असि। इन्द्राय। त्वा। षोडशिने। एषः। ते। योनिः। इन्द्राय। त्वा। षोडशिने॥३४॥

    यजुर्वेद - अध्याय » 8; मन्त्र » 34
    Acknowledgment

    अन्वयः - हे सोमपा इन्द्र! त्वं केशिना वृषणा कक्ष्यप्रा हरी रथे युक्ष्व। अथेत्यनन्तरं नोऽस्माकं गिरामुपश्रुतिं हि चर! उपयामेत्यस्यान्वयोऽपि पूर्ववत्॥३४॥

    पदार्थः -
    (युक्ष्व) (हि) खलु (केशिना) प्रशस्ताः केशा विद्यन्ते ययोस्तौ, अत्र सर्वत्र सुपां सुलुक्। (अष्टा॰७।१।३९) इति विभक्तेराकारः (हरी) यानस्य हरणशीलौ (वृषणा) वृषवद्बलिष्ठौ (कक्ष्यप्रा) कक्ष्यं प्रातः पिपूर्तः (अथ) आनन्तर्य्ये (नः) अस्माकम् (इन्द्र) शत्रुविदारक सेनाध्यक्ष! (सोमपाः) ऐश्वर्य्यरक्षक! (गिराम्) वाचम् (उपश्रुतिम्) उपगतां श्रूयमाणाम् (चर) विजानीहि। अत्र चर इत्यस्य गत्यर्थत्वात् प्राप्त्यर्थो गृह्यते (उपयामगृहीतः) इत्यादि पूर्ववत्। अयं मन्त्रः (शत॰ ४। ५। ३। १०-११) व्याख्यातः॥३४॥

    भावार्थः - अस्मिन्मन्त्रे रथमिति पदस्य सम्बन्धः। प्रजासभासेनाजनाः सभाध्यक्षं ब्रूयुः। शुचिना त्वया न्यायस्थितये चत्वारि सेनाङ्गानि सुशिक्षितानि हृष्टपुष्टानि रक्षणीयानि, पुनरस्माकं प्रार्थनानुकूल्येन राजैश्वर्य्यरक्षापि कार्य्येति॥३४॥

    इस भाष्य को एडिट करें
    Top