Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 8/ मन्त्र 58
    ऋषिः - वसिष्ठ ऋषिः देवता - विश्वेदेवा देवताः छन्दः - भूरिक् आर्षी जगती, स्वरः - निषादः
    8

    विश्वे॑ दे॒वाश्च॑म॒सेषून्नी॒तोऽसु॒र्होमा॒योद्य॑तो रु॒द्रो हू॒यमा॑नो॒ वातो॒ऽभ्यावृ॑तो नृ॒चक्षाः॒ प्रति॑ख्यातो भ॒क्षो भक्ष्यमा॑णः पि॒तरो॑ नाराश॒ꣳसाः॥५८॥

    स्वर सहित पद पाठ

    विश्वे॑। दे॒वाः। च॒म॒सेषु॑ उन्नी॑त॒ इत्युत्ऽनी॑तः। असुः॑। होमा॑य। उद्य॑त॒ इत्युत्ऽय॑तः। रु॒द्रः। हू॒यमा॑नः। वातः॑। अभ्यावृ॑त॒ इत्य॑भि॒ऽआवृ॑तः। नृ॒चक्षा॒ इति॑ नृ॒ऽचक्षाः॑। प्रति॑ख्यात॒ इति॒ प्रति॑ऽख्यातः। भ॒क्षः। भ॒क्ष्यमा॑णः। पि॒तरः॑। ना॒रा॒श॒ꣳसाः ॥५८॥


    स्वर रहित मन्त्र

    विश्वे देवा श्चमसेषून्नीतोसुर्हामायोद्यतो रुद्रो हूयमानो वातो भ्यावृत्तो नृचक्षाः प्रतिख्यातो भक्षो भक्ष्यमाणः पितरो नाराशँसाः सन्नः सिन्धु॥


    स्वर रहित पद पाठ

    विश्वे। देवाः। चमसेषु उन्नीत इत्युत्ऽनीतः। असुः। होमाय। उद्यत इत्युत्ऽयतः। रुद्रः। हूयमानः। वातः। अभ्यावृत इत्यभिऽआवृतः। नृचक्षा इति नृऽचक्षाः। प्रतिख्यात इति प्रतिऽख्यातः। भक्षः। भक्ष्यमाणः। पितरः। नाराशꣳसाः॥५८॥

    यजुर्वेद - अध्याय » 8; मन्त्र » 58
    Acknowledgment

    अन्वयः - यैर्होमाय यज्ञविधानेन चमसेषु सुगन्ध्यादिरुन्नीतोऽसुरुद्यतो रुद्रो हूयमानो नृचक्षाः प्रतिख्यातो वातोऽभ्यावृतस्तच्छोधितो भक्ष्यमाणो भक्षः कृतस्ते विश्वे देवा नाराशंसाः पितरश्च वेद्याः॥५८॥

    पदार्थः -
    (विश्वे) सर्वे (देवाः) विद्वांसः (चमसेषु) मेघेषु। चमस इति मेघनामसु पठितम्। (निघं॰१।१०) (उन्नीतः) ऊर्ध्वं नीतः सुगन्धादिपदार्थः (असुः) प्राणः (होमाय) दानायादानाय वा (उद्यतः) प्रयत्नेन प्रेरितः (रुद्रः) जीवः (हूयमानः) स्वीकृतः (वातः) बाह्यो वायुः (अभ्यावृतः) आभिमुख्येनाङ्गीकृतः (नृचक्षाः) नॄन् मनुष्यान् चष्ट इति (प्रतिख्यातः) ख्यातं ख्यातं प्रतीति (भक्षाः) भोज्यसमूहः (भक्ष्यमाणः) भुज्यमानः (पितरः) ज्ञानिनः (नाराशंसाः) नारानाशंसन्ति नराशंसानामिम उपदेशकाः। अयं मन्त्रः (शत॰ १२। ३। १। २७-३३) व्याख्यातः॥५८॥

    भावार्थः - ये विद्वांसः परोपकारबुद्ध्या विद्यां विस्तार्य्य सुगन्धिपुष्टिमधुरता रोगनाशकगुणयुक्तानां द्रव्याणां यथावन्मेलनं कृत्वाऽग्नौ हुत्वा वायुवृष्टिजलौषधी सेवित्वा शरीरारोग्यं जनयन्ति, त इह पूज्यतमाः सन्ति॥५८॥

    इस भाष्य को एडिट करें
    Top