Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 8/ मन्त्र 52
    ऋषिः - देवा ऋषयः देवता - प्रजापतिर्देवता छन्दः - निचृत् आर्षी बृहती स्वरः - मध्यमः
    6

    स॒त्रस्य॒ऽऋद्धि॑र॒स्यग॑न्म॒ ज्योति॑र॒मृता॑ऽअभूम। दिवं॑ पृथि॒व्याऽअध्या॑रुहा॒मावि॑दाम दे॒वान्त्स्व॒र्ज्योतिः॑॥५२॥

    स्वर सहित पद पाठ

    स॒त्रस्य॑। ऋद्धिः॑। अ॒सि॒। अग॑न्म। ज्योतिः॑। अ॒मृ॑ताः। अ॒भू॒म॒। दिव॑म्। पृ॒थि॒व्याः। अधि। आ। अ॒रु॒हा॒म॒। अवि॑दाम। दे॒वान्। स्वः॑। ज्योतिः॑ ॥५२॥


    स्वर रहित मन्त्र

    सत्रस्य ऽऋद्धिरस्यगन्म ज्योतिरमृता ऽअभूम दिवम्पृथिव्या ऽअध्यारुहामाविदाम देवान्त्स्वर्ज्यातिः ॥


    स्वर रहित पद पाठ

    सत्रस्य। ऋद्धिः। असि। अगन्म। ज्योतिः। अमृताः। अभूम। दिवम्। पृथिव्याः। अधि। आ। अरुहाम। अविदाम। देवान्। स्वः। ज्योतिः॥५२॥

    यजुर्वेद - अध्याय » 8; मन्त्र » 52
    Acknowledgment

    अन्वयः - हे विद्वँस्त्वं सत्रस्य ऋद्धिरसि, त्वत्सङ्गेन वयं ज्योतिरगन्म, अमृता अभूम, दिवः पृथिव्या अध्यारुहाम, देवाञ्ज्योतिः स्वश्चऽविदाम॥५२॥

    पदार्थः -
    (सत्रस्य) सङ्गतस्य राजव्यवहाररूपस्य यज्ञस्य (ऋद्धिः) सम्यग् वृद्धिः (असि) (अगन्म) प्राप्नुयाम (ज्योतिः) विज्ञानप्रकाशम् (अमृताः) प्राप्तामोक्षाः (अभूम) भवेम, अत्रोभयत्र लिङर्थे लुङ् (दिवम्) सूर्यादिम् (पृथिव्याः) भूम्यादेश्च जगतः (अधि) उपर्य्युत्कृष्टभावे (आ) समन्तात् (अरुहाम) प्रादुर्भवेम, अत्र विकरणव्यत्ययः (अविदाम) विन्देमहि (देवान्) विदुषो दिव्यान भोगान् वा (स्वः) सुखम् (ज्योतिः) विज्ञानविषयम्॥ अयं मन्त्रः (शत॰ ४। ६। ९। ११-१२) व्याख्यातः॥५२॥

    भावार्थः - यावत् सर्वेषां रक्षको धार्मिको राजाऽऽप्तो विद्वाँश्च न भवेत्, तावत् कश्चिन्निर्विघ्नं विद्यामोक्षानुष्ठानं कृत्वा तत्सुखं प्राप्तुन्नार्हति, न च मोक्षसुखादधिकतरं किञ्चित् सुखमस्ति॥५२॥

    इस भाष्य को एडिट करें
    Top