Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 8/ मन्त्र 56
    ऋषिः - वसिष्ठ ऋषिः देवता - विश्वेदेवा गृहस्था देवताः छन्दः - आर्षी बृहती स्वरः - मध्यमः
    8

    प्रो॒ह्यमा॑णः॒ सोम॒ऽआग॑तो॒ वरु॑णऽआ॒स॒न्द्यामास॑न्नो॒ऽग्निराग्नी॑ध्र॒ऽइन्द्रो॑ हवि॒र्द्धानेऽथ॑र्वो- पावह्रि॒यमा॑णः॥५६॥

    स्वर सहित पद पाठ

    प्रो॒ह्यमा॑णः। प्रो॒ह्यमा॑न॒ इति॑ प्रऽउ॒ह्यमा॑नः। सोमः॑। आग॑त॒ इत्याऽग॑तः। वरु॑णः। आ॒स॒न्द्यामित्या॑ऽस॒न्द्याम्। आस॑न्न॒ इत्याऽस॑न्नः। अ॒ग्निः। आग्नी॑ध्रे। इन्द्रः॑। ह॒वि॒र्द्धान॒ इति॑ हविः॒ऽधाने॑। अथ॑र्वा। उ॒पा॒व॒ह्रि॒यमा॑ण॒ इत्युप॑ऽअवह्रि॒यमा॑णः ॥५६॥


    स्वर रहित मन्त्र

    प्रोह्यमाणः सोमऽ आगतो वरुणऽआसन्द्यामासन्नोग्निराग्नीध्रेऽइन्द्रो हविर्धानेथर्वापावह्रियमाणो विश्वे देवाः ॥


    स्वर रहित पद पाठ

    प्रोह्यमाणः। प्रोह्यमान इति प्रऽउह्यमानः। सोमः। आगत इत्याऽगतः। वरुणः। आसन्द्यामित्याऽसन्द्याम्। आसन्न इत्याऽसन्नः। अग्निः। आग्नीध्रे। इन्द्रः। हविर्द्धान इति हविःऽधाने। अथर्वा। उपावह्रियमाण इत्युपऽअवह्रियमाणः॥५६॥

    यजुर्वेद - अध्याय » 8; मन्त्र » 56
    Acknowledgment

    अन्वयः - हे गृहस्थाः! युष्माभिरस्यामीश्वरस्य सृष्टावासन्द्यामागत इव प्रोह्यमाणः सोमो वरुण आग्नीध्रेऽग्निरुपावह्रियमाणोऽथर्वा हविर्द्धान इन्द्रः सततमुपयोजनीयः॥५६॥

    पदार्थः -
    (प्रोह्यमाणः) प्रकृष्टतर्केणाऽनुष्ठितः। प्रोह्यमाण इति पदं महीधरेण भ्रान्त्या पूर्वस्मिन् मन्त्रे पठितम्। (सोमः) ऐश्वर्य्यसमूहः (आगतः) समन्तात् प्राप्तः सहायकारी पुरुष इव (वरुणः) जलसमूहः (आसन्द्याम्) यानासनविशेषे (आसन्नः) समीपस्थः (अग्निः) (आग्नीध्रे) प्रदीपनसाधन इन्धनादौ (इन्द्रः) विद्युत् (हविर्द्धाने) हविषां ग्रहीतुं योग्यानां पदार्थानां धारणे (अथर्वा) अहिंसनीयः (उपावह्रियमाणः) क्रियाकौशलेनोपयुज्यमानः। अयं मन्त्रः (शत॰ १२। ६। १। १४-१८) व्याख्यातः॥५६॥

    भावार्थः - नहि तर्केण विना काचिद् विद्या कस्यचिद् भवति, नहि विद्यया विना कश्चित् पदार्थेभ्य उपभोगं ग्रहीतुं शक्नोति॥५६॥

    इस भाष्य को एडिट करें
    Top