अथर्ववेद - काण्ड 10/ सूक्त 1/ मन्त्र 11
सूक्त - प्रत्यङ्गिरसः
देवता - कृत्यादूषणम्
छन्दः - अनुष्टुप्
सूक्तम् - कृत्यादूषण सूक्त
यत्ते॑ पि॒तृभ्यो॒ दद॑तो य॒ज्ञे वा॒ नाम॑ जगृ॒हुः। सं॑दे॒श्या॒त्सर्व॑स्मात्पा॒पादि॒मा मु॑ञ्चन्तु॒ त्वौष॑धीः ॥
स्वर सहित पद पाठयत् । ते॒ । पि॒तृऽभ्य॑: ।दद॑त: । य॒ज्ञे । वा॒ । नाम॑ । ज॒गृ॒हु: । स॒म्ऽदे॒श्या᳡त् । सर्व॑स्मात् । पा॒पात् । इ॒मा: । मु॒ञ्च॒न्तु॒ । त्वा॒ । ओष॑धी: ॥१.११॥
स्वर रहित मन्त्र
यत्ते पितृभ्यो ददतो यज्ञे वा नाम जगृहुः। संदेश्यात्सर्वस्मात्पापादिमा मुञ्चन्तु त्वौषधीः ॥
स्वर रहित पद पाठयत् । ते । पितृऽभ्य: ।ददत: । यज्ञे । वा । नाम । जगृहु: । सम्ऽदेश्यात् । सर्वस्मात् । पापात् । इमा: । मुञ्चन्तु । त्वा । ओषधी: ॥१.११॥
अथर्ववेद - काण्ड » 10; सूक्त » 1; मन्त्र » 11
विषय - राजा के कर्तव्य दण्ड का उपदेश।
पदार्थ -
(यत्) यदि (यज्ञे) यज्ञ [श्रेष्ठ कर्म करने] में (पितृभ्यः) पितरों [माता पिता आचार्य आदि] को (ददतः) दान करते हुए (ते) तेरा (नाम वा) नाम (जगृहुः) उन्होंने लिया है, (सर्वस्मात्) [उनके] प्रत्येक (संदेश्यात्) अभीष्ट (पापात्) पाप से (इमाः) यह (औषधीः) ओषधियाँ [ओषधिरूप दुःखनाशक विद्वान् पुरुष] (त्वा) तुझको (मुञ्चन्तु) मुक्त करें ॥११॥
भावार्थ - यदि कोई पुरुष किसी सत्पुरुष को दान आदि शुभकर्म में मिथ्या दोष लगावें, विद्वान् लोग यथायोग्य अनुसन्धान करके उस दोष से उसे मुक्त करें ॥११॥
टिप्पणी -
११−(यत्) यदि (ते) तव (पितृभ्यः) मातापितृगुर्वादिभ्यः (ददतः) दानशीलस्य (यज्ञे) धर्मकर्मणि (वा) पादपूरणे (नाम) मिथ्यापवादम् (जगृहुः) गृहीतवन्तः। आरोपितवन्तः (सन्देश्यात्) दिश दाने-ण्यत्। अभिलषितात्। अभीष्टात् (सर्वस्मात्) (पापात्) (इमाः) (मुञ्चन्तु) वियोजयन्तु (त्वा) (ओषधीः) ओषधयः। ओषधिवत् तापनाशका विद्वांसः ॥