अथर्ववेद - काण्ड 10/ सूक्त 1/ मन्त्र 7
सूक्त - प्रत्यङ्गिरसः
देवता - कृत्यादूषणम्
छन्दः - अनुष्टुप्
सूक्तम् - कृत्यादूषण सूक्त
यस्त्वो॒वाच॒ परे॒हीति॑ प्रति॒कूल॑मुदा॒य्यम्। तं कृ॑त्येऽभि॒निव॑र्तस्व॒ मास्मानि॑च्छो अना॒गसः॑ ॥
स्वर सहित पद पाठय: । त्वा॒ । उ॒वाच॑ । परा॑ । इ॒हि॒ । इति॑ । प्र॒ति॒ऽकूल॑म् । उ॒त्ऽआ॒य्य᳡म् । तम् । कृ॒त्ये॒ । अ॒भि॒ऽनिव॑र्तस्व । मा । अ॒स्मान् । इ॒च्छ॒: । अ॒ना॒गस॑: ॥१.७॥
स्वर रहित मन्त्र
यस्त्वोवाच परेहीति प्रतिकूलमुदाय्यम्। तं कृत्येऽभिनिवर्तस्व मास्मानिच्छो अनागसः ॥
स्वर रहित पद पाठय: । त्वा । उवाच । परा । इहि । इति । प्रतिऽकूलम् । उत्ऽआय्यम् । तम् । कृत्ये । अभिऽनिवर्तस्व । मा । अस्मान् । इच्छ: । अनागस: ॥१.७॥
अथर्ववेद - काण्ड » 10; सूक्त » 1; मन्त्र » 7
विषय - राजा के कर्तव्य दण्ड का उपदेश।
पदार्थ -
(यः) जिस [दुष्ट] ने (त्वा) तुझ से (उवाच) कहा−“(उदाय्यम्) उदय को प्राप्त हुए (प्रतिकूलम्) विरुद्ध पक्षवाले शत्रु को (परा इहि इति) जाकर प्राप्त हो”। (कृत्ये) हे हिंसा क्रिया ! (तम्) उसकी ओर (अभिनिवर्तस्व) लौटकर जा, (अस्मान्) हम (अनागसः) निर्दोषियों को (मा इच्छः) मत चाह ॥७॥
भावार्थ - जो दुष्ट जन धर्मात्माओं को शत्रु जान कर सतावें, उन्हें पूरा-पूरा दण्ड मिले ॥७॥
टिप्पणी -
७−(यः) शत्रुः (त्वा) त्वाम् (उवाच) कथितवान् (परा) दूरे (इहि) प्राप्नुहि (इति) वाक्यसमाप्तौ (प्रतिकूलम्) विरुद्धपक्षवन्तं शत्रुम् (उदाय्यम्) उत्+आय-यत्। उदयं गच्छन्तम् (तम्) शत्रुम् (कृत्ये) म० ४। हे हिंसाक्रिये (अभिनिवर्तस्व) अभितो निवर्त्य प्राप्नुहि (मा इच्छः) मा वाञ्छ (अनागसः) निर्दोषान् ॥