अथर्ववेद - काण्ड 10/ सूक्त 1/ मन्त्र 8
सूक्त - प्रत्यङ्गिरसः
देवता - कृत्यादूषणम्
छन्दः - अनुष्टुप्
सूक्तम् - कृत्यादूषण सूक्त
यस्ते॒ परूं॑षि संद॒धौ रथ॑स्येव॒र्भुर्धि॒या। तं ग॑च्छ॒ तत्र॒ तेऽय॑न॒मज्ञा॑तस्ते॒ऽयं जनः॑ ॥
स्वर सहित पद पाठय: । ते॒ । परूं॑षि । स॒म्ऽद॒धौ । रथ॑स्यऽइव । ऋ॒भु: । धि॒या । तम् । ग॒च्छ॒ । तत्र॑ । ते॒ । अय॑नम् । अज्ञा॑त: । ते॒ । अ॒यम् । जन॑: ॥१.८॥
स्वर रहित मन्त्र
यस्ते परूंषि संदधौ रथस्येवर्भुर्धिया। तं गच्छ तत्र तेऽयनमज्ञातस्तेऽयं जनः ॥
स्वर रहित पद पाठय: । ते । परूंषि । सम्ऽदधौ । रथस्यऽइव । ऋभु: । धिया । तम् । गच्छ । तत्र । ते । अयनम् । अज्ञात: । ते । अयम् । जन: ॥१.८॥
अथर्ववेद - काण्ड » 10; सूक्त » 1; मन्त्र » 8
विषय - राजा के कर्तव्य दण्ड का उपदेश।
पदार्थ -
[हे हिंसा क्रिया !] (यः) जिस [शत्रु] ने (ते) तेरे (परूंषि) जोड़ों को (सन्दधौ) जोड़ा था, (इव) जैसे (ऋभुः) बुद्धिमान् [शिल्पी] (रथस्य) रथ के [जोड़ों को] (धिया) अपनी बुद्धि से (तम्) उसको (गच्छ) पहुँच, (तत्र) वहाँ पर (ते) तेरा (अयनम्) घर है, (अयम्) यह (जनः) पुरुष (ते) तेरा (अज्ञातः) अनजान [होवे] ॥८॥
भावार्थ - जो मनुष्य प्रपञ्च रचकर प्रजा जनों को गुप्त रीति से सतावें, उन्हें दण्ड दिया जावे ॥८॥
टिप्पणी -
८−(यः) शत्रुः (ते) तव (परूंषि) अवयवान् (संदधौ) संयोजितवान् (रथस्य) (इव) (ऋभुः) अ० १।२।३। मेधावी-निघ० ३।१५। शिल्पी (धिया) बुद्ध्या (तम्) शत्रुम् (गच्छ) प्राप्नुहि (तत्र) (ते) तव (अयनम्) गृहम् (अज्ञातः) अपरिचितः (अयम्) (जनः) ॥