अथर्ववेद - काण्ड 10/ सूक्त 1/ मन्त्र 29
सूक्त - प्रत्यङ्गिरसः
देवता - कृत्यादूषणम्
छन्दः - मध्ये ज्योतिष्मती जगती
सूक्तम् - कृत्यादूषण सूक्त
अ॑नागोह॒त्या वै भी॒मा कृ॑त्ये॒ मा नो॒ गामश्वं॒ पुरु॑षं वधीः। यत्र॑य॒त्रासि॒ निहि॑ता॒ तत॒स्त्वोत्था॑पयामसि प॒र्णाल्लघी॑यसी भव ॥
स्वर सहित पद पाठअ॒ना॒ग॒:ऽह॒त्या । वै । भी॒मा । कृ॒त्ये॒ । मा । न॒: । गाम् । अश्व॑म् । पुरु॑षम् । व॒धी॒: । यत्र॑ऽयत्र । असि॑ । निऽहि॑ता । तत॑: । त्वा॒ । उत् । स्था॒प॒या॒म॒सि॒ । प॒र्णात् । लघी॑यसी । भ॒व॒ ॥१.२९॥
स्वर रहित मन्त्र
अनागोहत्या वै भीमा कृत्ये मा नो गामश्वं पुरुषं वधीः। यत्रयत्रासि निहिता ततस्त्वोत्थापयामसि पर्णाल्लघीयसी भव ॥
स्वर रहित पद पाठअनाग:ऽहत्या । वै । भीमा । कृत्ये । मा । न: । गाम् । अश्वम् । पुरुषम् । वधी: । यत्रऽयत्र । असि । निऽहिता । तत: । त्वा । उत् । स्थापयामसि । पर्णात् । लघीयसी । भव ॥१.२९॥
अथर्ववेद - काण्ड » 10; सूक्त » 1; मन्त्र » 29
विषय - राजा के कर्तव्य दण्ड का उपदेश।
पदार्थ -
(कृत्ये) हे हिंसा क्रिया ! (अनागोहत्या) निर्दोषी की हत्या (वै) अवश्य (भीमा) भयानक है, (नः) हमारी (गाम्) गौ, (अश्वम्) घोड़े और (पुरुषम्) पुरुष को (मा वधीः) मत मार। (यत्रयत्र) जहाँ-जहाँ पर तू (निहिता) गुप्त रक्खी गयी (असि) है, (ततः) वहाँ से (त्वा) तुझको (उत् स्थापयामसि) हम उठाये देते हैं, तू (पर्णात्) पत्ते से (लघीयसी) अधिक हलकी (भव) हो जा ॥२९॥
भावार्थ - राजा विचारपूर्वक अनपराधियों के गुप्त रीति से सतानेवाले दुराचारियों को उचित दण्ड देकर अपने वश में रक्खे ॥२९॥
टिप्पणी -
२९−(अनागोहत्या) अनपराधिनो घातः (वै) अवश्यम् (भीमा) भयावहा (कृत्ये) हे हिंसाक्रिये (नः) अस्माकम् (गाम्, अश्वम्, पुरुषम्) (मा वधीः) मा हिंसीः (यत्रयत्र) यस्मिंश्चित् स्थाने (असि) (निहिता) गुप्तं स्थापिता (ततः) (त्वा) (उत् स्थापयामसि) उत्थापयामः (पर्णात्) तरुपत्रात् (लघीयसी) लघुतरा (भव) ॥