अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 18
सूक्त - काङ्कायनः
देवता - अर्बुदिः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनिवारण सूक्त
उद्वे॑पय॒ त्वम॑र्बुदे॒ऽमित्रा॑णाम॒मूः सिचः॑। जयां॑श्च जि॒ष्णुश्चा॒मित्राँ॒ जय॑ता॒मिन्द्र॑मेदिनौ ॥
स्वर सहित पद पाठउत् । वे॒प॒य॒ । त्वम् । अ॒र्बु॒दे॒ । अ॒मित्रा॑णाम् । अ॒मू: । सिच॑: । जय॑न् । च॒ । जि॒ष्णु: । च॒ । अ॒मित्रा॑न् । जय॑ताम् । इन्द्र॑ऽमेदिनौ ॥११.१८॥
स्वर रहित मन्त्र
उद्वेपय त्वमर्बुदेऽमित्राणाममूः सिचः। जयांश्च जिष्णुश्चामित्राँ जयतामिन्द्रमेदिनौ ॥
स्वर रहित पद पाठउत् । वेपय । त्वम् । अर्बुदे । अमित्राणाम् । अमू: । सिच: । जयन् । च । जिष्णु: । च । अमित्रान् । जयताम् । इन्द्रऽमेदिनौ ॥११.१८॥
अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 18
विषय - राजा और प्रजा के कर्त्तव्य का उपदेश।
पदार्थ -
(अर्बुदे) हे अर्बुदि ! [शूर सेनापति राजन्] (त्वम्) तू (अमित्राणाम्) शत्रुओं की (अमूः) उन (सिचः) सेचनशील [उमड़ती हुई सेनाओं] को (उत् वेपय) कँपा दे। (जयन्) जीतता हुआ [प्रजागण] (च च) और (जिष्णुः) विजयी [राजा], (इन्द्रमेदिनौ) जीवों के स्नेही आप दोनों (अमित्रान्) वैरियों को (जयताम्) जीतें ॥१८॥
भावार्थ - परस्पर प्रसन्नचित्त प्रजागण और राजगण शत्रुओं की सहायक सेनाओं को तुरन्त जीत लेवें ॥१८॥
टिप्पणी -
१८−(उत्) उत्कर्षेण (वेपय) म० १२। कम्पय (त्वम्) (अर्बुदे) म० १। शूर सेनापते राजन् (अमित्राणाम्) शत्रूणाम् (अमूः) दृश्यमानाः (सिचः) षिच आर्द्रीकरणे-क्विप्। सेचनशीलाः सहायिकाः सेनाः (जयन्) सांहितिको दीर्घः। पराभावयन् प्रजागणः (जिष्णुः) जयशीलः सेनापतिः (च) (अमित्रान्) शत्रून् (जयताम्) पराभावयताम् (इन्द्रमेदिनौ) म० ४। जीवानां स्नेहिनौ राजप्रजागणौ ॥