अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 2
सूक्त - काङ्कायनः
देवता - अर्बुदिः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनिवारण सूक्त
उत्ति॑ष्ठत॒ सं न॑ह्यध्वं॒ मित्रा॒ देव॑जना यू॒यम्। संदृ॑ष्टा गु॒प्ता वः॑ सन्तु॒ या नो॑ मि॒त्राण्य॑र्बुदे ॥
स्वर सहित पद पाठउत् । ति॒ष्ठ॒त॒ । सम् । न॒ह्य॒ध्व॒म् । मित्रा॑: । देव॑ऽजना: । यू॒यम् । सम्ऽदृ॑ष्टा । गु॒प्ता । व॒: । स॒न्तु॒ । या । न॒: । मि॒त्राणि॑ । अ॒र्बु॒दे॒ ॥११.२॥
स्वर रहित मन्त्र
उत्तिष्ठत सं नह्यध्वं मित्रा देवजना यूयम्। संदृष्टा गुप्ता वः सन्तु या नो मित्राण्यर्बुदे ॥
स्वर रहित पद पाठउत् । तिष्ठत । सम् । नह्यध्वम् । मित्रा: । देवऽजना: । यूयम् । सम्ऽदृष्टा । गुप्ता । व: । सन्तु । या । न: । मित्राणि । अर्बुदे ॥११.२॥
अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 2
विषय - राजा और प्रजा के कर्त्तव्य का उपदेश।
पदार्थ -
(मित्राः) हे प्रेरक (देवजनाः) विजयी जनो ! (यूयम्) तुम (उत् तिष्ठत) उठो और (सम् नह्यध्वम्) कवचों को पहिनो। (अर्बुदे) हे अर्बुदि ! [शूर सेनापति-म० १] (या) जो (नः) हमारे (मित्राणि) मित्र हैं, [वे सब] (वः) तुम लोगों के (संदृष्टा) देखे हुए और (गुप्ता) रक्षिता (सन्तु) होवें ॥२॥
भावार्थ - सेनापति राजा आदि अपने विजयी वीर सैनिकों और सहायक मित्रों को सावधान और अस्त्र-शस्त्रों से सजाकर निरीक्षण करें और व्यूहरचना से उन की रक्षा करें ॥२॥
टिप्पणी -
२−(उत्तिष्ठत) उद्गच्छत (संनह्यध्वम्) संनाहान् कवचान् धारयत (मित्राः) डुमिञ् प्रक्षेपणे−क्त्र। हे प्रेरकाः (देवजनाः) विजिगीषुलोकाः (यूयम्) (संदृष्टा) सम्यङ् निरीक्षितानि (गुप्ता) रक्षितानि (वः) युष्माकम् (सन्तु) (या) यानि (नः) अस्माकम् (मित्राणि) सुहृद्गणाः (अर्बुदे) म० १। हे शूर सेनापते ॥