अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 8
सूक्त - काङ्कायनः
देवता - अर्बुदिः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनिवारण सूक्त
सं॒कर्ष॑न्ती क॒रूक॑रं॒ मन॑सा पु॒त्रमि॒च्छन्ती॑। पतिं॒ भ्रात॑र॒मात्स्वान्र॑दि॒ते अ॑र्बुदे॒ तव॑ ॥
स्वर सहित पद पाठस॒म्ऽकर्ष॑न्ती । क॒रूक॑रम् । मन॑सा । पु॒त्रम् । इ॒च्छन्ती॑ । पति॑म् । भ्रात॑रम् । आत् । स्वान् । र॒दि॒ते । अ॒र्बु॒दे॒ । तव॑ ॥११.८॥
स्वर रहित मन्त्र
संकर्षन्ती करूकरं मनसा पुत्रमिच्छन्ती। पतिं भ्रातरमात्स्वान्रदिते अर्बुदे तव ॥
स्वर रहित पद पाठसम्ऽकर्षन्ती । करूकरम् । मनसा । पुत्रम् । इच्छन्ती । पतिम् । भ्रातरम् । आत् । स्वान् । रदिते । अर्बुदे । तव ॥११.८॥
अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 8
विषय - राजा और प्रजा के कर्त्तव्य का उपदेश।
पदार्थ -
(करूकरम्) कार्यकर्ता (पुत्रम्) पुत्र (पतिम्) पति, (भ्रातरम्) भाई (आत्) और (स्वान्) बन्धुओं को (संकर्षन्ती) समेटती हुई और (मनसा) मन से (इच्छन्ती) चाहती हुई [माता, पत्नी, भगिनी आदि स्त्री] (अर्बुदे) हे अर्बुदि ! [शूर सेनापति-म० १] (ते) तेरे (रदिते) तोड़ने-फोड़ने पर, [रोवे-म० ७] ॥८॥
भावार्थ - शूर सेनापति से शत्रुओं के मारे जाने पर उनकी स्त्रियाँ अपने घरों के कार्यकर्ताओं के बिना अत्यन्त दुःखी होवें ॥८॥
टिप्पणी -
८−(संकर्षन्ती) सम्यग् गृह्णन्ती (करूकरम्) कृषिचमितनि०। उ० १।८०। करोतेः-ऊ प्रत्ययः स्त्रियाम्। कृञो हेतुताच्छील्यानुलोम्येषु। पा० ३।२।२०। करोतेष्टः। करूं क्रियां करोतीति करूकरस्तं कार्यकर्तारम् (मनसा) हृदयेन (पुत्रम्) सुतम् (इच्छन्ती) कामयमाना (पतिम्) (भ्रातरम्) सहोदरम् (आत्) तथा (स्वान्) ज्ञातीन्। अन्यत् पूर्ववत्-म० ७ ॥