अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 21
सूक्त - काङ्कायनः
देवता - अर्बुदिः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनिवारण सूक्त
उत्क॑सन्तु॒ हृद॑यान्यू॒र्ध्वः प्रा॒ण उदी॑षतु। शौ॑ष्का॒स्यमनु॑ वर्तताम॒मित्रा॒न्मोत मि॒त्रिणः॑ ॥
स्वर सहित पद पाठउत् । क॒स॒न्तु॒ । हृद॑यानि । ऊ॒र्ध्व: । प्रा॒ण: । उत् । ई॒ष॒तु॒ । शौ॒ष्क॒ऽआ॒स्यम् । अनु॑ । व॒र्त॒ता॒म् । अ॒मित्रा॑न् । मा । उ॒त । मि॒त्रिण॑: ॥१९.२१॥
स्वर रहित मन्त्र
उत्कसन्तु हृदयान्यूर्ध्वः प्राण उदीषतु। शौष्कास्यमनु वर्तताममित्रान्मोत मित्रिणः ॥
स्वर रहित पद पाठउत् । कसन्तु । हृदयानि । ऊर्ध्व: । प्राण: । उत् । ईषतु । शौष्कऽआस्यम् । अनु । वर्तताम् । अमित्रान् । मा । उत । मित्रिण: ॥१९.२१॥
अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 21
विषय - राजा और प्रजा के कर्त्तव्य का उपदेश।
पदार्थ -
[शत्रुओं के] (हृदयानि) हृदय (उत् कसन्तु) उकस जावें [हिल जावें], (प्राणः) प्राण [श्वास-प्रश्वास] (ऊर्ध्वः) ऊँचा होकर (उत् ईषतु) चढ़ जावे। (शौष्कास्यम्) मुख की सुखाई (अमित्रान् अनु) शत्रुओं को (वर्तताम्) व्यापे, (उत) और (मित्रिणः) [हमारे लिये] मित्र रखनेवाले जनों को (मा) न [व्यापे] ॥२१॥
भावार्थ - जो लोग अपने मित्रों सहित हमारे सहायक होते हैं, उन वीरों के भय से शत्रुदल व्याकुल होकर कष्ट पावें और धर्मात्मा लोग सुख पावें ॥२१॥
टिप्पणी -
२१−(उत् कसन्तु) कस गतौ। उद्गच्छन्तु (हृदयानि) अन्तःकरणानि (ऊर्ध्वः) उच्चगतिः सन् (प्राणः) श्वासप्रश्वासव्यापारः (उदीषतु) ईष गतौ। निर्गच्छतु (शौष्कास्यम्) शुष्कास्यता। मुखस्य निर्द्रवत्वम् (अनु) प्रति (वर्तताम्) व्याप्यताम् (अमित्रान्) पीडकान् (मा) निषेधे (उत) अपि च (मित्रिणः) मित्र-इनि। अस्मभ्यं मित्राणि सन्ति येषां तान् जनान्-अनु-वर्ततामिति शेषः ॥