अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 1
सूक्त - काङ्कायनः
देवता - अर्बुदिः
छन्दः - त्र्यवसाना सप्तपदा विराट्शक्वरी
सूक्तम् - शत्रुनिवारण सूक्त
ये बा॒हवो॒ या इष॑वो॒ धन्व॑नां वी॒र्याणि च। अ॒सीन्प॑र॒शूनायु॑धं चित्ताकू॒तं च॒ यद्धृ॒दि। सर्वं॒ तद॑र्बुदे॒ त्वम॒मित्रे॑भ्यो दृ॒शे कु॑रूदा॒रांश्च॒ प्र द॑र्शय ॥
स्वर सहित पद पाठये । बा॒हव॑: । या: । इष॑व: । धन्व॑नाम् । वी॒र्या᳡णि । च॒ । अ॒सीन् । प॒र॒शून् । आयु॑धम् । चि॒त्त॒ऽआ॒कू॒तम् । च॒ । यत् । हृ॒दि । सर्व॑म् । तत् । अ॒र्बु॒दे॒ । त्वम् । अ॒मित्रे॑भ्य: । दृ॒शे । कु॒रु॒ । उ॒त्ऽआ॒रान् । च॒ । प्र । द॒र्श॒य॒ ॥११.१॥
स्वर रहित मन्त्र
ये बाहवो या इषवो धन्वनां वीर्याणि च। असीन्परशूनायुधं चित्ताकूतं च यद्धृदि। सर्वं तदर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥
स्वर रहित पद पाठये । बाहव: । या: । इषव: । धन्वनाम् । वीर्याणि । च । असीन् । परशून् । आयुधम् । चित्तऽआकूतम् । च । यत् । हृदि । सर्वम् । तत् । अर्बुदे । त्वम् । अमित्रेभ्य: । दृशे । कुरु । उत्ऽआरान् । च । प्र । दर्शय ॥११.१॥
अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 1
विषय - राजा और प्रजा के कर्त्तव्य का उपदेश।
पदार्थ -
(ये) जो (बाहवः) भुजाएँ, (याः) जो (इषवः) बाण, (च) और (धन्वनाम्) धनुषों के (वीर्याणि) वीर कर्म हैं [उनको] (असीन्) तरवारों, (परशून्) परसाओं [कुल्हाड़ों], (आयुधम्) अस्त्र-शस्त्र को, (च) और (यत्) जो कुछ (हृदि) हृदय में (चित्ताकूतम्) विचार और सङ्कल्प है, (तत् सर्वम्) उस सब [कर्म] को (अर्बुदे) हे अर्बुदि ! [शूर सेनापति राजन्] (त्वम्) तू (अमित्रेभ्यः दृशे) अमित्रों के लिये देखने को (कुरु) कर, (च) और (उदारान्) [हमें अपने] बड़े उपायों को (प्र दर्शय) दिखादे ॥१॥
भावार्थ - सेनापति राजा अपने योद्धाओं, अस्त्र-शस्त्रों, हृदय के विचारों और मनोरथों को दृढ़ करके शत्रुओं को रोके और प्रजा की यथावत् रक्षा करे ॥१॥
टिप्पणी -
१−(ये) (बाहवः) भुजदण्डाः (याः) (इषवः) बाणाः (धन्वनाम्) धनुषाम् (वीर्याणि) वीरकर्माणि। शत्रुजवसामर्थ्यानि (असीन्) खङ्गान् (परशून्) कुठारविशेषान् (आयुधम्) अस्त्रशस्त्रजातम् (चित्ताकूतम्) द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्। पा० २।४।२। एकवद्भावादेकवचनम्। चित्तानां विचाराणाम्, आकूतानां संकल्पानां च समाहारः (च) (यत्) (हृदि) हृदये (सर्वम्) (तत्) (अर्बुदे) अर्ब गतौ हिंसायां च-उदिच् प्रत्ययः। हे पुरुषार्थिन् शत्रुनाशक शूर सेनापते (त्वम्) (अमित्रेभ्यः) शत्रुभ्यः (दृशे) अ० १।६।३। द्रष्टुम् (कुरु) अनुतिष्ठ (उदारान्) उद+आङ्+रा दाने-क। यद्वा उद्+ऋ गतिप्रापणयोः-घञ्। गम्भीरोपायान् (च) (प्र) प्रकृष्टेन (दर्शय) निरीक्षय ॥