अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 4
सूक्त - भृगुः
देवता - अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - यक्ष्मारोगनाशन सूक्त
यद्य॒ग्निः क्र॒व्याद्यदि॒ वा व्या॒घ्र इ॒मं गो॒ष्ठं प्र॑वि॒वेशान्यो॑काः। तं माषा॑ज्यं कृ॒त्वा प्र हि॑णोमि दू॒रं स ग॑च्छत्वप्सु॒षदोऽप्य॒ग्नीन् ॥
स्वर सहित पद पाठयदि॑। अ॒ग्नि: । क्र॒व्य॒ऽअत् । यदि॑ । वा॒ । व्या॒घ्र: । इ॒मम् । गो॒ऽस्थम् । प्र॒ऽवि॒वेश॑ । अनि॑ऽओका: । तम् । माष॑ऽआज्यम् । कृ॒त्वा । प्र । हि॒णो॒मि॒ । दू॒रम् । स: । ग॒च्छ॒तु॒ । अ॒प्सु॒ऽसद॑: । अपि॑ । अ॒ग्नीन् ॥२.४॥
स्वर रहित मन्त्र
यद्यग्निः क्रव्याद्यदि वा व्याघ्र इमं गोष्ठं प्रविवेशान्योकाः। तं माषाज्यं कृत्वा प्र हिणोमि दूरं स गच्छत्वप्सुषदोऽप्यग्नीन् ॥
स्वर रहित पद पाठयदि। अग्नि: । क्रव्यऽअत् । यदि । वा । व्याघ्र: । इमम् । गोऽस्थम् । प्रऽविवेश । अनिऽओका: । तम् । माषऽआज्यम् । कृत्वा । प्र । हिणोमि । दूरम् । स: । गच्छतु । अप्सुऽसद: । अपि । अग्नीन् ॥२.४॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 4
Subject - Yakshma Nashanam
Meaning -
If the flesh-eating fire, that is, cancerous disease that consumes the patient’s flesh enters the house or stall like carnivorous beasts on the prowl, I deal with it with Masha paste and ghrta,specially of goat or sheep, and send it far out where it might join other forms of fire such as electric energy in the waters.