अथर्ववेद - काण्ड 10/ सूक्त 6/ मन्त्र 15
सूक्त - बृहस्पतिः
देवता - फालमणिः, वनस्पतिः
छन्दः - त्र्यवसाना षट्पदा त्रिष्टुब्गर्भा जगती
सूक्तम् - मणि बन्धन सूक्त
यमब॑ध्ना॒द्बृह॒स्पति॒र्वाता॑य म॒णिमा॒शवे॑। तं राजा॒ वरु॑णो म॒णिं प्रत्य॑मुञ्चत शं॒भुव॑म्। सो अ॑स्मै स॒त्यमिद्दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥
स्वर सहित पद पाठयम् । अब॑ध्नात् । बृह॒स्पति॑: । वाता॑य । म॒णिम् । आ॒शवे॑ । तम् । राजा॑ । वरु॑ण: । म॒णिम् । प्रति॑ । अ॒मु॒ञ्च॒त॒ । श॒म्ऽभुव॑म् । स: । अ॒स्मै॒ । स॒त्यम् । इत् । दु॒हे॒ । भूय॑:ऽभूय:। श्व:ऽश्व॑: । तेन॑ । त्वम् । द्वि॒ष॒त: । ज॒हि॒ ॥६.१५॥
स्वर रहित मन्त्र
यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे। तं राजा वरुणो मणिं प्रत्यमुञ्चत शंभुवम्। सो अस्मै सत्यमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥
स्वर रहित पद पाठयम् । अबध्नात् । बृहस्पति: । वाताय । मणिम् । आशवे । तम् । राजा । वरुण: । मणिम् । प्रति । अमुञ्चत । शम्ऽभुवम् । स: । अस्मै । सत्यम् । इत् । दुहे । भूय:ऽभूय:। श्व:ऽश्व: । तेन । त्वम् । द्विषत: । जहि ॥६.१५॥
अथर्ववेद - काण्ड » 10; सूक्त » 6; मन्त्र » 15
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १५−(राजा) शासकः (वरुणः) वरणीयः। श्रेष्ठः (प्रत्यमुञ्चत) स्वीकृतवान् (शंभुवम्) शम्+भू-क्विप्। शान्तिकारकम् (अस्मै) राज्ञे (सत्यम्) यथार्थम्। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें