अथर्ववेद - काण्ड 10/ सूक्त 6/ मन्त्र 3
यत्त्वा॑ शि॒क्वः प॒राव॑धी॒त्तक्षा॒ हस्ते॑न॒ वास्या॑। आप॑स्त्वा॒ तस्मा॑ज्जीव॒लाः पु॒नन्तु॒ शुच॑यः॒ शुचि॑म् ॥
स्वर सहित पद पाठयत् । त्वा॒ । शि॒क्व: । प॒रा॒ऽअव॑धीत् । तक्षा॑ । हस्ते॑न । वास्या॑ । आप॑: । त्वा॒ । तस्मा॑त् । जी॒व॒ला: । पु॒नन्तु॑ । शुच॑य: । शुचि॑म् ॥६.३॥
स्वर रहित मन्त्र
यत्त्वा शिक्वः परावधीत्तक्षा हस्तेन वास्या। आपस्त्वा तस्माज्जीवलाः पुनन्तु शुचयः शुचिम् ॥
स्वर रहित पद पाठयत् । त्वा । शिक्व: । पराऽअवधीत् । तक्षा । हस्तेन । वास्या । आप: । त्वा । तस्मात् । जीवला: । पुनन्तु । शुचय: । शुचिम् ॥६.३॥
अथर्ववेद - काण्ड » 10; सूक्त » 6; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(यत्) यदि (त्वा) (शिक्वः) अशूप्रुषिलटिकणि०। उ० १।१५१। शिञ् निशाने-क्विन् कुगागमश्च। छेत्ता (परा) दूरे (अवधीत्) अहिंसीत् (तक्षा) तनूकर्ता (हस्तेन) (वास्या) वसिवपियजि०। उ० ४।१२५। वस स्नेहच्छेदापहरणेषु-इन्। कुठारेण (आपः) अ० १०।५।६। विद्वांसः (त्वा) (तस्मात्) कष्टात् (जीवलाः) ला आदाने-क। जीवनदातारः (पुनन्तु) शोधयन्तु (शुचयः) पवित्रस्वभावाः (शुचिम्) पवित्रम् ॥
इस भाष्य को एडिट करें