Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 6/ मन्त्र 30
    सूक्त - बृहस्पतिः देवता - फालमणिः, वनस्पतिः छन्दः - अनुष्टुप् सूक्तम् - मणि बन्धन सूक्त

    ब्रह्म॑णा॒ तेज॑सा स॒ह प्रति॑ मुञ्चामि मे शि॒वम्। अ॑सप॒त्नः स॑पत्न॒हा स॒पत्ना॒न्मेऽध॑राँ अकः ॥

    स्वर सहित पद पाठ

    ब्रह्म॑णा । तेज॑सा । स॒ह । प्रति॑ । मु॒ञ्चा॒मि॒ । मे॒ । शि॒वम् । अ॒स॒प॒त्न: । स॒प॒त्न॒ऽहा । स॒ऽपत्ना॑न् । मे॒ । अध॑रान् । अ॒क॒ ॥६.३०॥


    स्वर रहित मन्त्र

    ब्रह्मणा तेजसा सह प्रति मुञ्चामि मे शिवम्। असपत्नः सपत्नहा सपत्नान्मेऽधराँ अकः ॥

    स्वर रहित पद पाठ

    ब्रह्मणा । तेजसा । सह । प्रति । मुञ्चामि । मे । शिवम् । असपत्न: । सपत्नऽहा । सऽपत्नान् । मे । अधरान् । अक ॥६.३०॥

    अथर्ववेद - काण्ड » 10; सूक्त » 6; मन्त्र » 30

    टिप्पणीः - ३०−(ब्रह्मणा) वेदद्वारा (तेजसा) प्रकाशेन सह (प्रति मुञ्चामि) स्वीकरोमि (मे) मह्यम्। आत्मने (शिवम्) मङ्गलप्रदं परमात्मानम् (असपत्नः) शत्रुनाशकः (सपत्नान्) शत्रून् (मे) मम (अधरान्) नीचान् (अकः) अ० १।८।१। अकार्षीत्। कृतवान् ॥

    इस भाष्य को एडिट करें
    Top