अथर्ववेद - काण्ड 10/ सूक्त 6/ मन्त्र 25
सूक्त - बृहस्पतिः
देवता - फालमणिः, वनस्पतिः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - मणि बन्धन सूक्त
यमब॑ध्ना॒द्बृह॒स्पति॑र्दे॒वेभ्यो॒ असु॑रक्षितिम्। स मा॒यं म॒णिराग॑म॒न्मधो॑र्घृ॒तस्य॒ धार॑या की॒लाले॑न म॒णिः स॒ह ॥
स्वर सहित पद पाठयम् । अब॑ध्नात् । बृह॒स्पति॑: । दे॒वेभ्य॑: । असु॑रऽक्षितिम् । स: । मा॒ । अ॒यम् । म॒णि: । आ । अ॒ग॒म॒त् । मधो॑: । घृ॒तस्य॑ । धार॑या । की॒लाले॑न । म॒णि: । स॒ह ॥६.२५॥
स्वर रहित मन्त्र
यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम्। स मायं मणिरागमन्मधोर्घृतस्य धारया कीलालेन मणिः सह ॥
स्वर रहित पद पाठयम् । अबध्नात् । बृहस्पति: । देवेभ्य: । असुरऽक्षितिम् । स: । मा । अयम् । मणि: । आ । अगमत् । मधो: । घृतस्य । धारया । कीलालेन । मणि: । सह ॥६.२५॥
अथर्ववेद - काण्ड » 10; सूक्त » 6; मन्त्र » 25
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २५−(मधोः) मधुररसस्य (घृतस्य) सर्पिषः (धारया) प्रवाहेण (कीलालेन) अ० ४।११।१०। कीलालमन्ननाम-निघ० २।७। सुसंस्कृतेनान्नेन। अन्यद् गतम् ॥
इस भाष्य को एडिट करें