Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 6/ मन्त्र 5
    सूक्त - बृहस्पतिः देवता - फालमणिः, वनस्पतिः छन्दः - षट्पदा जगती सूक्तम् - मणि बन्धन सूक्त

    तस्मै॑ घृ॒तं सुरां॒ मध्वन्न॑मन्नं क्षदामहे। स नः॑ पि॒तेव॑ पु॒त्रेभ्यः॒ श्रेयः॑ श्रेयश्चिकित्सतु॒ भूयो॑भूयः॒ श्वःश्वो॑ दे॒वेभ्यो॑ म॒णिरेत्य॑ ॥

    स्वर सहित पद पाठ

    तस्मै॑ । घृ॒तम् । सुरा॑म् । मधु॑ । अन्न॑म्ऽअन्नम् । क्ष॒दा॒म॒हे॒ । स: । न॒: । पि॒ताऽइ॑व । पु॒त्रेभ्य॑: । श्रेय॑:ऽश्रय: । चि॒कि॒त्स॒तु॒ । भूय॑:ऽभूय: ।‍ श्व:ऽश्व॑: । दे॒वेभ्य॑: । म॒णि: । आ॒ऽइत्य॑ ॥६.५॥


    स्वर रहित मन्त्र

    तस्मै घृतं सुरां मध्वन्नमन्नं क्षदामहे। स नः पितेव पुत्रेभ्यः श्रेयः श्रेयश्चिकित्सतु भूयोभूयः श्वःश्वो देवेभ्यो मणिरेत्य ॥

    स्वर रहित पद पाठ

    तस्मै । घृतम् । सुराम् । मधु । अन्नम्ऽअन्नम् । क्षदामहे । स: । न: । पिताऽइव । पुत्रेभ्य: । श्रेय:ऽश्रय: । चिकित्सतु । भूय:ऽभूय: ।‍ श्व:ऽश्व: । देवेभ्य: । मणि: । आऽइत्य ॥६.५॥

    अथर्ववेद - काण्ड » 10; सूक्त » 6; मन्त्र » 5

    टिप्पणीः - ५−(तस्मै) तस्य प्राप्तये (घृतम्) तेजः (सुराम्) अ० ६।६९।१। षुर ऐश्वर्यदीप्त्योः-क, टाप्। ऐश्वर्यम् (मधु) मधुविद्याम्। यथार्थज्ञानम् (अन्नमन्नम्) अन्नस्य पश्चादन्नम् (क्षदामहे) क्षद संपेषणे भक्षणे विभागे च, सौत्रः। वण्टयामः (सः) वैदिकनियमः (नः) अस्मभ्यम् (पिता इव) (पुत्रेभ्यः) (श्रेयःश्रेयः) कल्याणस्य परिकल्याणम् (चिकित्सतु) कित रोगापनयने। वैद्यवत् प्रज्ञापयतु (भूयोभूयो) बहुतरं बहुतरम् (श्वः श्वः) नित्यमागामिनि दिने (देवेभ्यः) विदुषां सकाशात् (मणिः) प्रशंसनीयो वैदिकनियमः (एत्य) आगत्य ॥

    इस भाष्य को एडिट करें
    Top