अथर्ववेद - काण्ड 10/ सूक्त 6/ मन्त्र 11
सूक्त - बृहस्पतिः
देवता - फालमणिः, वनस्पतिः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - मणि बन्धन सूक्त
यमब॑ध्ना॒द्बृह॒स्पति॒र्वाता॑य म॒णिमा॒शवे॑। सो अ॑स्मै वा॒जिन॒मिद्दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥
स्वर सहित पद पाठयम् । अब॑ध्नात् । बृह॒स्पति॑: । वाता॑य । म॒णिम् । आ॒शवे॑ । स: । अ॒स्मै॒ । वा॒जिन॑म् । दु॒हे॒ । भूय॑:ऽभूय:। श्व:ऽश्व॑: । तेन॑ । त्वम् । द्वि॒ष॒त: । ज॒हि॒ ॥६.११॥
स्वर रहित मन्त्र
यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे। सो अस्मै वाजिनमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥
स्वर रहित पद पाठयम् । अबध्नात् । बृहस्पति: । वाताय । मणिम् । आशवे । स: । अस्मै । वाजिनम् । दुहे । भूय:ऽभूय:। श्व:ऽश्व: । तेन । त्वम् । द्विषत: । जहि ॥६.११॥
अथर्ववेद - काण्ड » 10; सूक्त » 6; मन्त्र » 11
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ११−(वाताय) अ० १।११।६। वा गतौ-तन्। गमनशीलाय। उद्योगिने (आशवे) कृवापा०। उ० १।१। अश भोजने-उण्। भोक्त्रे प्राणिने (वाजिनम्) महेरिनण् च। उ० २।५६। वज गतौ-इनण्। बलम्। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें