Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 6/ मन्त्र 34
    सूक्त - बृहस्पतिः देवता - फालमणिः, वनस्पतिः छन्दः - अनुष्टुप् सूक्तम् - मणि बन्धन सूक्त

    यस्मै॑ त्वा यज्ञवर्धन॒ मणे॑ प्र॒त्यमु॑चं शि॒वम्। तं त्वं श॑तदक्षिण॒ मणे॑ श्रैष्ठ्याय जिन्वतात् ॥

    स्वर सहित पद पाठ

    यस्मै॑ । त्वा॒ । य॒ज्ञ॒ऽव॒र्ध॒न॒ । मणे॑ । प्र॒ति॒ऽअमु॑ञ्चम् । शि॒वम् । तम् । त्वम् । श॒त॒ऽद॒क्षि॒ण॒ । मणे॑ । श्रैष्ठ्या॑य । जि॒न्व॒ता॒त् ॥६.३४॥


    स्वर रहित मन्त्र

    यस्मै त्वा यज्ञवर्धन मणे प्रत्यमुचं शिवम्। तं त्वं शतदक्षिण मणे श्रैष्ठ्याय जिन्वतात् ॥

    स्वर रहित पद पाठ

    यस्मै । त्वा । यज्ञऽवर्धन । मणे । प्रतिऽअमुञ्चम् । शिवम् । तम् । त्वम् । शतऽदक्षिण । मणे । श्रैष्ठ्याय । जिन्वतात् ॥६.३४॥

    अथर्ववेद - काण्ड » 10; सूक्त » 6; मन्त्र » 34

    टिप्पणीः - ३४−(यस्मै) पुरुषहिताय (त्वा) (यज्ञवर्धन) हे श्रेष्ठव्यवहारवर्धक (मणे) (प्रत्यमुचम्) अहं स्वीकृतवान् (शिवम्) (मङ्गलकारकम्) (तम्) पुरुषम् (त्वम्) (शतदक्षिण) बहुप्रकारवृद्धियुक्त (मणे) (श्रैष्ठ्याय) श्रेष्ठपदाय (जिन्वतात्) तर्पय ॥

    इस भाष्य को एडिट करें
    Top