Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 6/ मन्त्र 35
    सूक्त - बृहस्पतिः देवता - फालमणिः, वनस्पतिः छन्दः - पञ्चपदा त्र्यनुष्टुब्गर्भा जगती सूक्तम् - मणि बन्धन सूक्त

    ए॒तमि॒ध्मं स॒माहि॑तं जुष॒णो अग्ने॒ प्रति॑ हर्य॒ होमैः॑। तस्मि॑न्विधेम सुम॒तिं स्व॒स्ति प्र॒जां चक्षुः॑ प॒शून्त्समि॑द्धे जा॒तवे॑दसि॒ ब्रह्म॑णा ॥

    स्वर सहित पद पाठ

    ए॒तम् । इ॒ध्मम् । स॒म्ऽआहि॑तम् । जु॒षा॒ण: । अग्ने॑ । प्रति॑ । ह॒र्य॒ । होमै॑: । तस्मि॑न् । वि॒दे॒म॒ । सु॒ऽम॒तिम् । स्व॒स्ति । प्र॒ऽजाम् । चक्षु॑: । प॒शून् । सम्ऽइ॑ध्दे । जा॒तऽवे॑दसि । ब्रह्म॑णा ॥६.३५॥


    स्वर रहित मन्त्र

    एतमिध्मं समाहितं जुषणो अग्ने प्रति हर्य होमैः। तस्मिन्विधेम सुमतिं स्वस्ति प्रजां चक्षुः पशून्त्समिद्धे जातवेदसि ब्रह्मणा ॥

    स्वर रहित पद पाठ

    एतम् । इध्मम् । सम्ऽआहितम् । जुषाण: । अग्ने । प्रति । हर्य । होमै: । तस्मिन् । विदेम । सुऽमतिम् । स्वस्ति । प्रऽजाम् । चक्षु: । पशून् । सम्ऽइध्दे । जातऽवेदसि । ब्रह्मणा ॥६.३५॥

    अथर्ववेद - काण्ड » 10; सूक्त » 6; मन्त्र » 35

    टिप्पणीः - ३५−(एतम्) प्रसिद्धम् (इध्मम्) प्रकाशस्वरूपं परमात्मानम् (समाहितम्) सम्यग् ध्यातम् (जुषाणः) प्रीतः सन् (अग्ने) अग्निवत्तेजस्विन् विद्वन् (प्रति) प्रत्यक्षम् (हर्य) कामयस्व (होमैः) दानैः। आत्मसमर्पणैः (तस्मिन्) (विदेम) प्राप्नुयाम (सुमतिम्) कल्याणबुद्धिम् (स्वस्ति) सुसत्ताम्। शुभम् (प्रजाम्) (चक्षुः) दृष्टिम् (पशून्) (समिद्धे) प्रकाशिते (जातवेदसि) अ० १।७।२। उत्पन्नपदार्थानां ज्ञातरि (ब्रह्मणा) वेदद्वारा ॥

    इस भाष्य को एडिट करें
    Top