अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 1
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - विराड्जगती
सूक्तम् - सर्वाधारवर्णन सूक्त
कस्मि॒न्नङ्गे॒ तपो॑ अ॒स्याधि॑ तिष्ठति॒ कस्मि॒न्नङ्ग॑ ऋ॒तम॒स्याध्याहि॑तम्। क्व व्र॒तं क्व श्र॒द्धास्य॑ तिष्ठति॒ कस्मि॒न्नङ्गे॑ स॒त्यम॑स्य॒ प्रति॑ष्ठितम् ॥
स्वर सहित पद पाठकस्मि॑न् । अङ्गे॑ । तप॑: । अ॒स्य॒ । अधि॑ । ति॒ष्ठ॒ति॒ । कस्मि॑न् । अङ्गे॑ । ऋ॒तम् । अ॒स्य॒ । अधि॑ । आऽहि॑तम् । क्व᳡ । व्र॒तम् । क्व᳡ । श्र॒ध्दा । अ॒स्य । ति॒ष्ठ॒ति॒ । कस्मि॑न् । अङ्गे॑ । स॒त्यम् । अ॒स्य॒ । प्रति॑ऽस्थितम् ॥७.१॥
स्वर रहित मन्त्र
कस्मिन्नङ्गे तपो अस्याधि तिष्ठति कस्मिन्नङ्ग ऋतमस्याध्याहितम्। क्व व्रतं क्व श्रद्धास्य तिष्ठति कस्मिन्नङ्गे सत्यमस्य प्रतिष्ठितम् ॥
स्वर रहित पद पाठकस्मिन् । अङ्गे । तप: । अस्य । अधि । तिष्ठति । कस्मिन् । अङ्गे । ऋतम् । अस्य । अधि । आऽहितम् । क्व । व्रतम् । क्व । श्रध्दा । अस्य । तिष्ठति । कस्मिन् । अङ्गे । सत्यम् । अस्य । प्रतिऽस्थितम् ॥७.१॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(कस्मिन्) (अङ्गे) अवयवे (तपः) ब्रह्मचर्यादि तपश्चरणम्। ऐश्वर्यम्। सामर्थ्यम् (अस्य) ब्रह्मणः (अधि) दृढम् (तिष्ठति) वर्तते (कस्मिन् अङ्गे) (ऋतम्) सत्यशास्त्रम्। वेदज्ञानम् (अस्य) (अधि) (आहितम्) स्थापितम् (क्व) कुत्र। कस्मिन्नङ्गे (व्रतम्) वरणीयो नियमः (क्व) (श्रद्धा) सत्ये दृढविश्वासः (अस्य) (तिष्ठति) (कस्मिन् अङ्गे) (सत्यम्) यथार्थं कर्म (अस्य) (प्रतिष्ठितम्) दृढतया स्थितम् ॥
इस भाष्य को एडिट करें