Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 8
    सूक्त - अथर्वा, क्षुद्रः देवता - स्कन्धः, आत्मा छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - सर्वाधारवर्णन सूक्त

    यत्प॑र॒मम॑व॒मं यच्च॑ मध्य॒मं प्र॒जाप॑तिः ससृ॒जे वि॒श्वरू॑पम्। किय॑ता स्क॒म्भः प्र वि॑वेश॒ तत्र॒ यन्न प्रावि॑श॒त्किय॒त्तद्ब॑भूव ॥

    स्वर सहित पद पाठ

    यत् । प॒र॒मम् । अ॒व॒मम् । यत् । च॒ । म॒ध्य॒मम् । प्र॒जाऽप॑ति: । स॒सृ॒जे । वि॒श्वऽरू॑पम् । किय॑ता । स्क॒म्भ: । प्र । वि॒वे॒श॒ । तत्र॑ । यत् । न । प्र॒ऽअवि॑शत् । किय॑त् । तत् । ब॒भू॒व॒ ॥७.८॥


    स्वर रहित मन्त्र

    यत्परममवमं यच्च मध्यमं प्रजापतिः ससृजे विश्वरूपम्। कियता स्कम्भः प्र विवेश तत्र यन्न प्राविशत्कियत्तद्बभूव ॥

    स्वर रहित पद पाठ

    यत् । परमम् । अवमम् । यत् । च । मध्यमम् । प्रजाऽपति: । ससृजे । विश्वऽरूपम् । कियता । स्कम्भ: । प्र । विवेश । तत्र । यत् । न । प्रऽअविशत् । कियत् । तत् । बभूव ॥७.८॥

    अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 8

    टिप्पणीः - ८−(यत्) यत् किञ्चित् (परमम्) उच्चतमम् (अवमम्) नीचतमम् (यत् च) (मध्यमम्) मध्यतमम् (प्रजापतिः) परमेश्वरः (ससृजे) उत्पादयामास (विश्वरूपम्) नानाविधं जगत् (कियता) किं परिमाणेन (स्कम्भः) सर्वधारकः परमात्मा (प्रविवेश) प्रविष्टवान् (तत्र) जगति (यत्) यत्परिमाणं जगत् (न) निषेधे (प्राविशत्) प्रविष्टवान् परमेश्वरः (कियत्) किं परिमाणम् (तत्) जगत् (बभूव) ववृते ॥

    इस भाष्य को एडिट करें
    Top